मारकुस 6

6
गृहनगरे नासरते येशोः अपमानः
(मत्ती 13:53-58; लूका 4:16-30)
1ततः येशुः शिष्‍यैः सह स्‍वं नगरम्‌ आगतः। 2विश्रामदिवसे सभागृहे उपदेष्‍टुम्‌ आरब्‍धवान्‌। बहवः श्रोतारः तत्‌ श्रुत्‍वा विस्‍मयम्‌ जाताः “सर्वम्‌ एतत्‌ कुतः च अयं लब्‍धवान्‌? तत्‌ किं ज्ञानम्‌, यत्‌ एतस्‍मै दत्तम्‌ अस्‍ति। अयं यं महान्‍तं चमत्‍कारं दर्शयति, 3किम्‌ अयम्‌ असौ तक्षा न अस्‍ति - यः हि मरियमगर्भजः, यस्‍य भ्रातरः याकूबः, योसेसः, सिमोनः, यहूदाः? भगिन्‍यः अपि अस्‍य अस्‍माकं मध्‍ये किम्‌ न वर्तन्‍ते?” इत्‍थं ते येशौ विश्‍वासं कर्तुम्‌ न अशक्‍नुवन्‌। 4येशुः तान्‌ अब्रवीत्‌, “स्‍वस्‍मिन्‌ देशे, ग्रामे, कुले तथा च नगरे नबी गौरवं न आप्‍नोति।” 5येशुः तत्र कत्र्चित्‌ चमत्‍कारं कर्तुम्‌ न शशाक। केवलं स्‍वल्‍पान्‌ रोगिणः स्‍पृष्‍ट्‌वा स्‍वस्‍थान्‌ चकार। 6तेषाम्‌ अविश्‍वासं दृष्‍ट्‌वा येशुः भृशम्‌ विस्‍मितवान्‌।
द्वादशानां प्रेषणम्‌
(मत्ती 10:1,9-14; लूका 9:1-6)
7येशुः शिक्षां ददन्‌ ग्रामे-ग्रामे भ्रमति स्‍म। द्वादशशिष्‍यान्‌ स्‍वसमीपम्‌ आह्‌वयत्‌, तेभ्‍यः अपदूतेषु अधिकारं दत्‍वा द्वौ द्वौ कृत्‍वा प्रहितुं सः प्रचक्रमे। 8तान्‌ आदिष्‍टवान्‌, “युष्‍माभिः केवलं यष्‍टिम्‌ आदाय एव गम्‍यताम्‌। यात्रायां किंचन वस्‍तु न गृह्‌यताम्‌, न रोटिकां, न पोटलिकां न उष्‍णीषे रुप्‍यकं 9पादयोः केवलं उपानहौ। देहेषु अंगाच्‍छादनकद्वयम्‌ न परिदधद्‌ध्‍वम्‌।” 10पुनश्‍च तान्‌ असौ अब्रवीत्‌, “यूयं यत्रैव तिष्‍ठथ, नगरात्‌ प्रस्‍थितिं यावत्‌ तद्‌ गेहं न त्‍यज्‍यताम्‌। 11यदि कुत्रापि लोकाः युष्‍माकं स्‍वागतं न कुर्वते, अथवा युष्‍माकं वचनानि नैव शृण्‍वन्‍ति, तदा तत्‍स्‍थानात्‌ निर्गत्‍य तान्‌ शिक्षयितुम्‌ स्‍वकीयपादेभ्‍यः यूयं द्रुतम्‌ धूलिं धुनूयात।” 12-13ते शिष्‍याः निर्गत्‍य जनेभ्‍यः पश्‍चात्तापम्‌ उपदिशन्‌, बहून्‌ भूतान्‌ अपि निस्‍सारयन्‌, तैलेन एव अभिषिच्‍य अनेकान्‌ रोगिणः निरामयान्‌ कृतवन्‍तः।
नृपः हेरोदेसः येशुश्‍च
(मत्ती 14:1-2; लूका 9:7-9)
14हेरोदेसेन येशोः चर्चा श्रुता, यतः तस्‍य नाम विख्‍यातम्‌ अभवत्‌। जनाः अकथयन्‌, “योहनः जलसंस्‍कारदाता मृतानां मध्‍यतः उत्‍थितः अस्‍ति, ततोहि असौ चमत्‍कारान्‌ दर्शयति। 15अन्‍ये अकथयन्‌ - “अयम्‌ एलियाहः।” अन्‍ये प्राहु, “अयं कश्‍चित्‌ प्राचीननबिसदृशः।” 16हेरोदेसः एतत्‌ समाकर्ण्‍य अब्रवीत्‌, अयं योहनः एव वर्तते, यस्‍य शिरः मया छिन्‍नम्‌, मृतानां मध्‍यतः सैव समुत्‍थाय समागतः।
जलसंस्‍कारदातुः योहनस्‍य वधः
(मत्ती 14:3-12; लूका 3:19-20)
17हेरोदेसः स्‍वसहोदरस्‍य फिलिपस्‍य पत्‍न्‍याः हेरोदियायाः कारणात्‌, योहनं कारागारे बद्धवान्‌, यतः सः, हेरोदियाम्‌ ऊढवान्‌। 18योहनः हेरोदेसम्‌ अवदत्‌, “स्‍वभ्रातुः भार्यया सह तव विवाहकरणं सर्वथा अनुचितमस्‍ति।”
19-20अतः हेरोदियासः तस्‍मै द्रुह्‌यति स्‍म, तथा तं हन्‍तुम्‌ ऐच्‍छत्‌। परन्‍तु एतत्‌ कर्तुम्‌ सा नैव शशाक, यतः हेरोदेसः, योहनं सन्‍तं धार्मिकं च मत्‍वा तस्‍मिन्‌ श्रद्‍दधाति स्‍म, तं रक्षति स्‍म। हेरोदेसः तस्‍य वचनम्‌ श्रुत्‍वा द्वैविध्‍यम्‌ भजमानोऽपि योहनस्‍य वचनानि तस्‍मै रोचन्‍ते स्‍म।
21हेरोदेसस्‍य जन्‍मदिवसे हेरोदियसा एकम्‌ अवसरं प्राप्‍तवती। तस्‍य उत्‍सवस्‍य संरम्‍भे हेरोदः स्‍वसभासदः सेनापतीन्‌ धनाढ्‌यान्‌ च गलीलियानिवासिनः सर्वान्‌ सादरम्‌ आमन्‍त्र्‌य रात्रिभोज्‍यम्‌ अयोजयत्‌। 22तस्‍याः सा पुत्री अभ्‍यन्‍तरम्‌ आगत्‍य अनृत्‍यत्‌, हेरोदेससहितान्‌ सर्वान्‌ उपस्‍थितान्‌ मन्‍त्रमुग्‍धान्‌ अकरोत्‌। राजा हेरोदेसः ताम्‌ अभाषत, “त्‍वं यत्‌ इच्‍छसि, याचस्‍व तुभ्‍यं तत्‌ अहं प्रददामि।” 23पुनः सः शप्‍त्‍वा तां प्राह, “यद्‌ वात्र्छसि याचस्‍व अहं तत्‌ तुभ्‍यं प्रदास्‍यामि स्‍याच्‍च तन्‍मेऽर्धराज्‍यकम्‌।” 24सा बाला बहिः गत्‍वा स्‍विकाम्‌ जननीम्‌ अपृच्‍छत्‌, “मया असौ किम्‌ याचनीयः।” जननी ताम्‌ इदम्‌ अब्रवीत्‌, “त्‍वं जलसंस्‍कारदातुः योहनस्‍य शिरः याचस्‍व।” 25सा राज्ञः अन्‍तिकं क्षिप्रम्‌ आगत्‍य कथितवती, “अहम्‌ इच्‍छामि भवता मह्‌यम्‌ योहनमस्‍तकम्‌ अस्‍मिन्‍नेव क्षणे स्‍थाल्‍यां निधाय ददीत।” 26राजा महान्‍तम्‌ आघातं प्राप्‍य अपि स्‍वयम्‌ आत्‍मना कृतस्‍य तस्‍य शपथस्‍य, अतिथीनां भयात्‌ अपि, तस्‍याः याचनाम्‌ अस्‍वीकारकर्तुम्‌ न ऐच्‍छत्‌। 27सः धातुकम्‌ त्‍वरितं कारागेहं सम्‍प्रेष्‍य योहनस्‍य शिरः शीघ्रम्‌ आनेतुम्‌ आदिदेश। सः च कारागृहं गत्‍वा योहनस्‍य शिरः अच्‍छिनत्‌, 28स्‍थाल्‍यां च तत्‌ निधाय असौ, बालिकायै समर्पयत्‌। बालिका तत्‌ समादाय स्‍वमातुः हस्‍तयोः अददात्‌। 29योहनस्‍य शिष्‍याः तत्‌ ज्ञात्‍वा तत्र समागताश्‍च, तस्‍य शवं समादाय शवागारे न्‍यधुः।
प्रेरितानां प्रत्‍यवर्तनम्‌
(मत्ती 14:13-21; लूका 9:10-17; यूह 5:1-13)
30-31ते प्रेरिताः येशुम्‌ एत्‍य तस्‍मै न्‍यवेदयन्‌ “यत्‌ च शिक्षितवन्‍तः कृतवन्‍तः च।” येशुः तान्‌ अवदत्‌, “यूयं कित्र्चन निर्जनं स्‍थानम्‌ मया साद्‌र्धम्‌ समागत्‍य क्षणम्‌ विश्रामं कुरुत। यतः आगच्‍छतां गच्‍छतां तत्र महान्‌ चयः आसीत्‌ येन ते भोजनं कर्तुमपि न अपारयन्‌। 32अतः ते नावि आरुह्‌य गुप्‍तस्‍थानं प्रतस्‍थिरे। 33बहवः जनाः तान्‌ गच्‍छन्‍तः विलोक्‍य जज्ञिरे, “यत्‌ ते कुत्र व्रजन्‍ति“ अतस्‍ते नगराद्‌ बहिः निर्गत्‍य स्‍थलवर्त्‍मना एव परिधावन्‍तः तेषां गमनात्‌ पूर्वमेव तत्‍स्‍थानं प्राप्‍नुवन्‌। 34येशुः नावः उत्तीर्य एकं विशालं जनसमूहं दृष्‍टवान्‌, अन्‍वकम्‍पत्‌ यस्‍मात्‌ ते हीनरक्षकमेषवत्‌ आसन्‌, अतः असौ बहून्‌ उपदेशान्‌ तेभ्‍यः ददौ।
पत्र्चसहस्रजनेभ्‍यः भोजनस्‍य व्‍यवस्‍था
(मत्ती 14:13-21; लूका 9:10-17; यूह 6:1-13)
35दिवसस्‍यान्‍तिमे भागे शिष्‍याः तम्‌ एत्‍य अवदन्‌, “इदं निर्जनस्‍थानम्‌ दिनस्‍य अवसानम्‌ अभवत्‌। 36जनान्‌ विसृजतु, येन ते समीपस्‍थतः ग्रामतः तथा पल्‍लीतः भोज्‍यवस्‍तूनि क्रीणीयुः।” 37येशुः तान्‌ अब्रवीत्‌, “यूयं हि तेभ्‍यो भोजनम्‌ यच्‍छत।” ते तमूचुः, “वयं गत्‍वा क्रीत्‍वा च रोटिकाः शतद्वयेन दीनाराणां किं तेभ्‍यो ददामहै?” 38सः तान्‌ पप्रच्‍छ “वः पार्श्‍वे कति रोटिकाः विद्‌यन्‍ते।” ते तम्‌ ऊचिरे, पत्र्च रोटिकाः द्वौ मत्‍स्‍यौ। 39ततः येशुः तान्‌ हरिततृणे उपवेष्‍टुम्‌ आदिष्‍टवान्‌। 40शतं शतं तथा पत्र्चाशत्‌ पत्र्चाशत्‌ नराः पंक्‍तिबद्धाः हरिततृणे भोजनार्थम्‌ उपविष्‍टवन्‍तः। येशुः ताः रोटिकाः पत्र्चमत्‍स्‍यौ द्वौ करे गृहीतवान्‌, स्‍वर्गम्‌ प्रति उच्‍चदृष्‍टिं कृत्‍वा आशिषः प्रार्थनाम्‌ अपठत्‌।
41ततः ताः रोटिकाः भड्‌.क्‍त्‍वा शिष्‍येभ्‍यः प्रदत्तवान्‌, येन शिष्‍याः तेभ्‍यः यथोचितम्‌ परिवेषयन्‍तु। ततः येशुः मत्‍स्‍यद्वयमपि विभज्‍य तेभ्‍यः प्रदत्तवान्‌। 42इत्‍थं सर्वे भुक्‍त्‍वा परां तृप्‍तिम्‌ आप्‍नुवन्‌। 43मत्‍स्‍ययोः रोटिकानां च भग्‍नांशैः अवशिष्‍टकैः द्वादशडल्‍लकाः पिूरताः। 44पुरुषानाम्‌ संख्‍या पत्र्चसहस्रः आसीत्‌।
येशुः समुद्रोपरि व्रजति
(मत्ती 14:22-23; यूह 6:16-21)
45ततः परं सद्‌यः स्‍वान्‌ शिष्‍यान्‌ आदिष्‍टवान्‌, “यूयं नावि समारुह्‌य मत्तः पूर्वम्‌ बेतसैदाम्‌ गच्‍छत, यावत्‌ अहं सर्वान्‌ इमान्‌ जनान्‌ विसृजामि।” 46सः तान्‌ विसृज्‍य प्रार्थनार्थम्‌ गिरिम्‌ आरोहत्‌।
47उपस्‍थितायां सन्‍ध्‍यायां नौः मध्‍यसरसि आसीत्‌, येशुः एकाकी एव स्‍थले आसीत्‌। 48येंशुः अपश्‍यत्‌ यत्‌ शिष्‍याः तां नावं क्‍लेशतः वाहयन्‍ति स्‍म, यतो वायुः तदा प्रतिकूलं ववौ। अतः प्रायः सः यामिन्‍याः चतुर्थे प्रहरे स्‍थिते समुद्रस्‍य उपरिष्‍टात्‌ व्रजन्‌ तान्‌ अभ्‍युपागतः। अथ असौ तान्‌ अतिक्रम्‍य गन्‍तुमग्रे प्रचक्रमे, 49शिष्‍याः तं व्रजन्‍तं दृष्‍ट्‌वा प्रेतम्‌ अवगच्‍छन्‌। 50-51ते सर्वे भयात्‌ चुक्रुशुः, ते तं दृष्‍ट्‌वा उद्‌विग्‍नतां गताः। येशुः द्रुतम्‌ तान्‌ उवाच, “मा बिभीत, धार्यताम्‌ धैर्यम्‌ अहम्‌ एव अस्‍मि।” तदा येशुः तान्‌ उपगम्‍य नावि अधिरुढ़वान्‌। प्रतिकूलः वायुः सहसा प्रशमं ययौ। शिष्‍याः परमं विस्‍मयं ययुः, 52यतः स्‍व बुद्धिजाड्‌येन रोटिकानां चमत्‍कृतिम्‌ विलोक्‍यापि तस्‍य अर्थम्‌ न जानीतवन्‍तः।
गिनेसरेते रुग्‍णजनेभ्‍यः स्‍वास्‍थ्‍यलाभः
(मत्ती 14:22-23; यूह 6:16-21)
53सरसः अपरे तटे गिनेसरेतम्‌ आसाद्य नावं बद्‌ध्‍वा, कूले असौ नावः बहिः निर्गतः। 54जनाः तम्‌ अभिज्ञाय सर्वतः धावन्‍तः तस्‍यान्‍तिके आगच्‍छन्‌। 55यत्र कुत्रापि जनाः येशोः उपस्‍थितिम्‌ विज्ञाय, खट्‌वासु आरोप्‍य रोगिणः तस्‍य समीपम्‌ आनयन्‌। 56ग्रामेषु पल्‍लीषु अथवा नगरेषु अपि यत्र सः अगच्‍छत्‌ जनाः हट्‌टस्‍थानेषु रोगिणः निधाय अयाचन्‍त स्‍पर्शनं तस्‍य, ये वस्‍त्रस्‍य अग्रभागम्‌ स्‍पृष्‍टवन्‍तः ते तावन्‍तः स्‍वस्‍थतां गताः।

ទើបបានជ្រើសរើសហើយ៖

मारकुस 6: SANSKBSI

គំនូស​ចំណាំ

ចែក​រំលែក

ចម្លង

None

ចង់ឱ្យគំនូសពណ៌ដែលបានរក្សាទុករបស់អ្នក មាននៅលើគ្រប់ឧបករណ៍ទាំងអស់មែនទេ? ចុះឈ្មោះប្រើ ឬចុះឈ្មោះចូល