1
इब्रिणः 4:12
सत्यवेदः। Sanskrit NT in Devanagari
SAN-DN
ईश्वरस्य वादोऽमरः प्रभावविशिष्टश्च सर्व्वस्माद् द्विधारखङ्गादपि तीक्ष्णः, अपरं प्राणात्मनो र्ग्रन्थिमज्जयोश्च परिभेदाय विच्छेदकारी मनसश्च सङ्कल्पानाम् अभिप्रेतानाञ्च विचारकः।
Compare
Explore इब्रिणः 4:12
2
इब्रिणः 4:16
अतएव कृपां ग्रहीतुं प्रयोजनीयोपकारार्थम् अनुग्रहं प्राप्तुञ्च वयम् उत्साहेनानुग्रहसिंहासनस्य समीपं यामः।
Explore इब्रिणः 4:16
3
इब्रिणः 4:15
अस्माकं यो महायाजको ऽस्ति सोऽस्माकं दुःखै र्दुःखितो भवितुम् अशक्तो नहि किन्तु पापं विना सर्व्वविषये वयमिव परीक्षितः।
Explore इब्रिणः 4:15
4
इब्रिणः 4:13
अपरं यस्य समीपे स्वीया स्वीया कथास्माभिः कथयितव्या तस्यागोचरः कोऽपि प्राणी नास्ति तस्य दृष्टौ सर्व्वमेवानावृतं प्रकाशितञ्चास्ते।
Explore इब्रिणः 4:13
5
इब्रिणः 4:14
अपरं य उच्चतमं स्वर्गं प्रविष्ट एतादृश एको व्यक्तिरर्थत ईश्वरस्य पुत्रो यीशुरस्माकं महायाजकोऽस्ति, अतो हेतो र्वयं धर्म्मप्रतिज्ञां दृढम् आलम्बामहै।
Explore इब्रिणः 4:14
6
इब्रिणः 4:11
अतो वयं तद् विश्रामस्थानं प्रवेष्टुं यतामहै, तदविश्वासोदाहरणेन कोऽपि न पततु।
Explore इब्रिणः 4:11