1
इब्रिणः 3:13
सत्यवेदः। Sanskrit NT in Devanagari
SAN-DN
किन्तु यावद् अद्यनामा समयो विद्यते तावद् युष्मन्मध्ये कोऽपि पापस्य वञ्चनया यत् कठोरीकृतो न भवेत् तदर्थं प्रतिदिनं परस्परम् उपदिशत।
Compare
Explore इब्रिणः 3:13
2
इब्रिणः 3:12
हे भ्रातरः सावधाना भवत, अमरेश्वरात् निवर्त्तको योऽविश्वासस्तद्युक्तं दुष्टान्तःकरणं युष्माकं कस्यापि न भवतु।
Explore इब्रिणः 3:12
3
इब्रिणः 3:14
यतो वयं ख्रीष्टस्यांशिनो जाताः किन्तु प्रथमविश्वासस्य दृढत्वम् अस्माभिः शेषं यावद् अमोघं धारयितव्यं।
Explore इब्रिणः 3:14
4
इब्रिणः 3:8
तर्हि पुरा परीक्षाया दिने प्रान्तरमध्यतः। मदाज्ञानिग्रहस्थाने युष्माभिस्तु कृतं यथा। तथा मा कुरुतेदानीं कठिनानि मनांसि वः।
Explore इब्रिणः 3:8
5
इब्रिणः 3:1
हे स्वर्गीयस्याह्वानस्य सहभागिनः पवित्रभ्रातरः, अस्माकं धर्म्मप्रतिज्ञाया दूतोऽग्रसरश्च यो यीशुस्तम् आलोचध्वं।
Explore इब्रिणः 3:1