यतो यूयं यद्यपि समयस्य दीर्घत्वात् शिक्षका भवितुम् अशक्ष्यत तथापीश्वरस्य वाक्यानां या प्रथमा वर्णमाला तामधि शिक्षाप्राप्ति र्युष्माकं पुनरावश्यका भवति, तथा कठिनद्रव्ये नहि किन्तु दुग्धे युष्माकं प्रयोजनम् आस्ते।
यो दुग्धपायी स शिशुरेवेतिकारणात् धर्म्मवाक्ये तत्परो नास्ति।