Biểu trưng YouVersion
Biểu tượng Tìm kiếm

मथिः 22

22
1अनन्तरं यीशुः पुनरपि दृष्टान्तेन तान् अवादीत्,
2स्वर्गीयराज्यम् एतादृशस्य नृपतेः समं, यो निज पुत्रं विवाहयन् सर्व्वान् निमन्त्रितान् आनेतुं दासेयान् प्रहितवान्,
3किन्तु ते समागन्तुं नेष्टवन्तः।
4ततो राजा पुनरपि दासानन्यान् इत्युक्त्वा प्रेषयामास, निमन्त्रितान् वदत, पश्यत, मम भेज्यमासादितमास्ते, निजव्टषादिपुष्टजन्तून् मारयित्वा सर्व्वं खाद्यद्रव्यमासादितवान्, यूयं विवाहमागच्छत।
5तथपि ते तुच्छीकृत्य केचित् निजक्षेत्रं केचिद् वाणिज्यं प्रति स्वस्वमार्गेण चलितवन्तः।
6अन्ये लोकास्तस्य दासेयान् धृत्वा दौरात्म्यं व्यवहृत्य तानवधिषुः।
7अनन्तरं स नृपतिस्तां वार्त्तां श्रुत्वा क्रुध्यन् सैन्यानि प्रहित्य तान् घातकान् हत्वा तेषां नगरं दाहयामास।
8ततः स निजदासेयान् बभाषे, विवाहीयं भोज्यमासादितमास्ते, किन्तु निमन्त्रिता जना अयोग्याः।
9तस्माद् यूयं राजमार्गं गत्वा यावतो मनुजान् पश्यत, तावतएव विवाहीयभोज्याय निमन्त्रयत।
10तदा ते दासेया राजमार्गं गत्वा भद्रान् अभद्रान् वा यावतो जनान् ददृशुः, तावतएव संगृह्यानयन्; ततोऽभ्यागतमनुजै र्विवाहगृहम् अपूर्य्यत।
11तदानीं स राजा सर्व्वानभ्यागतान् द्रष्टुम् अभ्यन्तरमागतवान्; तदा तत्र विवाहीयवसनहीनमेकं जनं वीक्ष्य तं जगाद्,
12हे मित्र,त्वं विवाहीयवसनं विना कथमत्र प्रविष्टवान्? तेन स निरुत्तरो बभूव।
13तदा राजा निजानुचरान् अवदत्, एतस्य करचरणान् बद्धा यत्र रोदनं दन्तैर्दन्तघर्षणञ्च भवति, तत्र वहिर्भूततमिस्रे तं निक्षिपत।
14इत्थं बहव आहूता अल्पे मनोभिमताः।
15अनन्तरं फिरूशिनः प्रगत्य यथा संलापेन तम् उन्माथे पातयेयुस्तथा मन्त्रयित्वा
16हेरोदीयमनुजैः साकं निजशिष्यगणेन तं प्रति कथयामासुः, हे गुरो, भवान् सत्यः सत्यमीश्वरीयमार्गमुपदिशति, कमपि मानुषं नानुरुध्यते, कमपि नापेक्षते च, तद् वयं जानीमः।
17अतः कैसरभूपाय करोऽस्माकं दातव्यो न वा? अत्र भवता किं बुध्यते? तद् अस्मान् वदतु।
18ततो यीशुस्तेषां खलतां विज्ञाय कथितवान्, रे कपटिनः युयं कुतो मां परिक्षध्वे?
19तत्करदानस्य मुद्रां मां दर्शयत। तदानीं तैस्तस्य समीपं मुद्राचतुर्थभाग आनीते
20स तान् पप्रच्छ, अत्र कस्येयं मूर्त्ति र्नाम चास्ते? ते जगदुः, कैसरभूपस्य।
21ततः स उक्तवान, कैसरस्य यत् तत् कैसराय दत्त, ईश्वरस्य यत् तद् ईश्वराय दत्त।
22इति वाक्यं निशम्य ते विस्मयं विज्ञाय तं विहाय चलितवन्तः।
23तस्मिन्नहनि सिदूकिनोऽर्थात् श्मशानात् नोत्थास्यन्तीति वाक्यं ये वदन्ति, ते यीशेारन्तिकम् आगत्य पप्रच्छुः,
24हे गुरो, कश्चिन्मनुजश्चेत् निःसन्तानः सन् प्राणान् त्यजति, तर्हि तस्य भ्राता तस्य जायां व्युह्य भ्रातुः सन्तानम् उत्पादयिष्यतीति मूसा आदिष्टवान्।
25किन्त्वस्माकमत्र केऽपि जनाः सप्तसहोदरा आसन्, तेषां ज्येष्ठ एकां कन्यां व्यवहात्, अपरं प्राणत्यागकाले स्वयं निःसन्तानः सन् तां स्त्रियं स्वभ्रातरि समर्पितवान्,
26ततो द्वितीयादिसप्तमान्ताश्च तथैव चक्रुः।
27शेषे सापी नारी ममार।
28मृतानाम् उत्थानसमये तेषां सप्तानां मध्ये सा नारी कस्य भार्य्या भविष्यति? यस्मात् सर्व्वएव तां व्यवहन्।
29ततो यीशुः प्रत्यवादीत्, यूयं धर्म्मपुस्तकम् ईश्वरीयां शक्तिञ्च न विज्ञाय भ्रान्तिमन्तः।
30उत्थानप्राप्ता लोका न विवहन्ति, न च वाचा दीयन्ते, किन्त्वीश्वरस्य स्वर्गस्थदूतानां सदृशा भवन्ति।
31अपरं मृतानामुत्थानमधि युष्मान् प्रतीयमीश्वरोक्तिः,
32"अहमिब्राहीम ईश्वर इस्हाक ईश्वरो याकूब ईश्वर" इति किं युष्माभि र्नापाठि? किन्त्वीश्वरो जीवताम् ईश्वर:, स मृतानामीश्वरो नहि।
33इति श्रुत्वा सर्व्वे लोकास्तस्योपदेशाद् विस्मयं गताः।
34अनन्तरं सिदूकिनाम् निरुत्तरत्ववार्तां निशम्य फिरूशिन एकत्र मिलितवन्तः,
35तेषामेको व्यवस्थापको यीशुं परीक्षितुं पपच्छ,
36हे गुरो व्यवस्थाशास्त्रमध्ये काज्ञा श्रेष्ठा?
37ततो यीशुरुवाच, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैश्च साकं प्रभौ परमेश्वरे प्रीयस्व,
38एषा प्रथममहाज्ञा। तस्याः सदृशी द्वितीयाज्ञैषा,
39तव समीपवासिनि स्वात्मनीव प्रेम कुरु।
40अनयो र्द्वयोराज्ञयोः कृत्स्नव्यवस्थाया भविष्यद्वक्तृग्रन्थस्य च भारस्तिष्ठति।
41अनन्तरं फिरूशिनाम् एकत्र स्थितिकाले यीशुस्तान् पप्रच्छ,
42ख्रीष्टमधि युष्माकं कीदृग्बोधो जायते? स कस्य सन्तानः? ततस्ते प्रत्यवदन्, दायूदः सन्तानः।
43तदा स उक्तवान्, तर्हि दायूद् कथम् आत्माधिष्ठानेन तं प्रभुं वदति ?
44यथा मम प्रभुमिदं वाक्यमवदत् परमेश्वरः। तवारीन् पादपीठं ते यावन्नहि करोम्यहं। तावत् कालं मदीये त्वं दक्षपार्श्व उपाविश। अतो यदि दायूद् तं प्रभुं वदति, र्तिह स कथं तस्य सन्तानो भवति?
45तदानीं तेषां कोपि तद्वाक्यस्य किमप्युत्तरं दातुं नाशक्नोत्;
46तद्दिनमारभ्य तं किमपि वाक्यं प्रष्टुं कस्यापि साहसो नाभवत्।

Tô màu

Chia sẻ

So sánh

Sao chép

None

Bạn muốn lưu những tô màu trên tất cả các thiết bị của mình? Đăng ký hoặc đăng nhập