मत्ति 28

28
येशोः पुनरोत्‍थानम्‌
(मर 16:1-8; लूका 24:1-10; यूह 20:1-2)
1विश्रामदिवसात्‌ परम्‌, सप्‍ताहस्‍य प्रथमे दिवसे, प्रातरेव मरियममगदलेनी तथा अपरा मरिया शवागारं द्रष्‍टुम्‌ आगच्‍छताम्‌। 2सहसा महान्‌ भूकम्‍पः बभूव। प्रभोः एकः दूतः स्‍वर्गात्‌ अवातरत्‌, शवागारम्‌ उपागम्‍य प्रस्‍तरं च लोठयित्‍वा, तत्रैव प्रस्‍तरे समुपाविशत्‌। 3दूतस्‍य मुखमंडलम्‌ विद्‌युतस्‍य इव विभाति स्‍म। तस्‍य वस्‍त्राणि हिमवत्‌ उज्‍ज्‍वलानि आसन्‌। 4दूतं दृष्‍ट्‌वा रक्षिणः भयात्‌ वेपिरे, मृतकल्‍पाः बभूवुः। 5स्‍वर्गदूतः यौषितौ प्राह, “युवयोः तु न भयम्‌ भवेत्‌ 6अहं जानामि युवाम्‌ क्रूसम्‌ आरोपितं येशुम्‌ मृगयेथे। परं येशुः अत्र न वर्तते। यथा असौ प्रोक्‍तवान्‌ आसीत्‌, तथा पुनरुज्‍जीवितः, आगत्‍य तत्‌ स्‍थलम्‌ पश्‍यताम्‌ च। 7-8अथ तस्‍य शिष्‍यान्‌ सत्‍वरं गत्‍वा युवाम्‌ इदं ब्रूतम्‌, ‘मृतकानां मध्‍यतः येशुः पुनरुत्‍थितः वर्तते।’ भवतः पूर्वम्‌ एव असौ गलीलप्रदेशं गमिष्‍यति। भवन्‍तः तत्रैव तं द्रक्ष्‍यन्‍ति। युवयोः कृते अयं हि मम सन्‍देशः वर्तते।” ततः ते योषितौ शवागारात्‌ शीघ्रम्‌ अगच्‍छताम्‌। विस्‍मयेन आनन्‍देन सह तस्‍य शिष्‍येभ्‍यः इमं सुसमाचारं श्रावयितुम्‌ अधावताम्‌।
येशुः तयोः सम्‍मुखम्‌
(मर 16:9-10; यूह 20:11-17)
9येशुः सहसा मार्गे गछन्‍त्‍यौ तयोः सम्‍मुखम्‌ आगच्‍छत्‌, उभे नमश्‍चक्रतुः च। ते पुरतः आगत्‍य, निपत्‍य, तस्‍य चरणौ धृत्‍वा वन्‍दनाम्‌ अकुरुताम्‌ दण्‍डवद्‌ भूमौ। 10येशुः ते प्राह, “मा बिभीतम्‌ इमं सुसन्‍देशं मे भ्रातृवृन्‍दाय दत्तम्‌, ते सर्वे गलीलप्रदेशम्‌ आगच्‍छन्‍तु। तत्र ते मम दर्शनं करिष्‍यन्‍ति।”
रक्षिभ्‍यः उत्‍कोचः
11ते मार्गे एव आस्‍ताम्‌, केचन्‌ रक्षकाः नगरम्‌ आगच्‍छन्‌। ते तत्‌ मुख्‍यं वृत्तं महापुरोहितेभ्‍यः न्‍यवेदयन्‌। 12महापुरोहिताः धर्मवृद्धैः सह मिलित्‍वा, तैः सह मन्‍त्रणां विधाय, रक्षकेभ्‍यः महत्‌ धनं दत्‍वा, 13तान्‌ अबोधयन्‌, युष्‍माभिः इदम्‌ वक्‍तव्‍यम्‌, “रात्रौ अस्‍मासु सुप्‍तेषु येशोः शिष्‍याः आगच्‍छन्‌, तैः येशोः शवम्‌ अपहृतम्‌। 14वार्ता इयं राज्‍यपालस्‍य श्रुतिं व्रजति चेत्‌ तदा वयं तमनुनेष्‍यामः, युष्‍मान्‌ अपि रक्षिष्‍यामः।” 15ततः मुद्राः गृहीत्‍वा, ते यथा शिक्षिताः तथा अकुर्वन्‌। इयमेव कथा सर्वजनेषु प्रथिताऽभवत्‌। अद्यापि यहूदिनां मध्‍ये इयम्‌ प्रचलिता अस्‍ति।
शिष्‍याणां प्रेषणम्‌
(मर 16:14-18)
16तदा एकादश शिष्‍याः गलीलप्रदेशे तस्‍मिन्‌ गिरौ गतवन्‍तः, यत्र येशुः तान्‌ आह्‌वयत्‌। 17येशुं दृष्‍ट्‌वा सर्वे तं नमः अकुर्वन्‌, परन्‍तु केचित्‌ सन्‍दिग्‍धमानसाः अपि आसन्‌।
18तान्‌ उपेत्‍य येशुः एवं तान्‌ प्रत्‍यभाषत्‌, “मह्यम्‌ स्‍वर्गे, भुवि च पूर्णाधिकारः प्राप्‍तः। 19अतएव यूयं गत्‍वा सर्वाणि राष्‍ट्राणि च शिष्‍याणि कृत्‍वा, तेभ्‍यः पितुः पुत्रस्‍य, पूतात्‍मनश्‍च नाम्‍ना जलसंस्‍कारं दत्त। 20युष्‍मान्‌ यत्‌ यत्‌ आदेशान्‌ दत्तवान्‌, तान्‌ पालनं कुरुत, तानि शिक्षयत च, स्‍मरत - अहं संसारस्‍य अन्‍तं यावत्‌ युष्‍माभिः सार्द्धम्‌ अस्‍मि।”

اکنون انتخاب شده:

मत्ति 28: SANSKBSI

های‌لایت

به اشتراک گذاشتن

مقایسه

کپی

None

می خواهید نکات برجسته خود را در همه دستگاه های خود ذخیره کنید؟ برای ورودثبت نام کنید یا اگر ثبت نام کرده اید وارد شوید

ویدیوهایی برای मत्ति 28