मत्ति 20
20
द्राक्षोद्यानस्य श्रमिकाणां दृष्टान्तः
1स्वर्गराज्यं तेन भूस्वामिना समम् वर्तते यः स्वकीये द्राक्षायाः उद्याने श्रमिकान् नियोक्तुं गृहतः प्रत्यूष एव निर्जगाम। 2तैः श्रमिकैः सार्द्धम् दैनिकी दीनारं भूतिम् निरुप्य, तान् स्वकं द्राक्षायाः उद्यानं प्रेषयामास। 3प्रायः प्रथमे प्रहरे पुनः सः बहिः आगतः। सः अपरान् अकर्मकान् श्रमिणः स्थितान् दृष्ट्वा अवदत्, 4“यूयम् अपि मम द्राक्षायाः उद्यानं गच्छत।” अहं न्याय्यं वेतनं दास्यामि, ते च तत्र अगच्छन्। 5प्रायः द्वितीये तृतीये प्रहरे बहिः आगत्य सः तथैव कृतवान्। 6अवशिष्टे होरामात्रे दिनेऽसौ सः पुनः बहिः आगतः; तत्र अन्यान् जनान् स्थितान् दृष्ट्वा उवाच, “यूयं कृत्स्नं दिनम् अत्र किमर्थम् निष्कर्मकाः स्थिताः!” 7ते अवदन्, “यतः केनापि कर्मणि न वयं नियुक्ताः।” सः तान् अवदत्, “यूयम् अपि मम द्राक्षायाः उद्यानं गच्छत।”
8सन्ध्यायाम् उपस्थितायां द्राक्षायाः उद्यानपतिः स्वकर्मचारिणं प्राह, “श्रमिकान् आह्वय। तथा अन्ताः श्रमिकाः ये च विद्यन्ते प्रथमाश्च ये, त्वया द्रुतम् तेभ्योः सर्वेभ्यो वेतनं दीयताम्। 9यदा ते श्रमिकाः सर्वे आजग्मुः, ये कर्मणि अवशिष्टे होरामात्रे दिने नियोजिताः आसन्, ते प्रत्येकं दीनारम् एकम् लेभिरे। 10ततः ते प्रथमाः सर्वे श्रमिकाः समुपागताः ते सर्वे तु अवजग्मुः यद् अस्मभ्यम् अधिकं लप्स्यते। किन्तु ते च अपि प्रत्येकम् एकं दीनारम् आप्नुवन्। 11तत् तु आदाय ते द्राक्षोद्यानाधिपं प्रति अपवदन्तः जगदुः, 12इमे अन्तिमाः श्रमिकाः होरामात्रमेव हि कर्मणि व्यापारिताः। त्वं तथापि एतान् अस्माभिः सह तुल्यान् कृतवान्, वयं कठोरश्रमं तीव्रम् आतपं सहित्वा कृत्स्नं दिवसम् अकुर्म। 13सः भूमिवान् तेषु एकं प्रति अवदीत्, “मित्र! अहं त्वया सार्द्धम् अन्यायं न करोमि। किं त्वया मया सह एकं दीनारं न निरुपितम्? 14स्वीयां भूतिं नीत्वा स्वस्थानं व्रज। अहं तुभ्यम् इव अन्त्याय कर्मिणे अपि भूतिं दातुम् इच्छामि। 15किं अहं स्वेच्छया स्वधनस्य उपयोगकर्तुम् न शक्नोमि? मम औदार्यम् अवलोक्य त्वं किमर्थम् ज्वलसि? 16इत्थं ये अन्त्याः सन्ति ते प्राथम्यं लप्स्यन्ते, ये प्रथमे सन्ति ते अन्तिमाः भविष्यन्ति।”
दुःखभोगस्य पुनरुत्थानस्य च तृतीया भविष्यवाणी
(मर 10:32-34; लूका 18:31-33)
17येशुः येरुसलेमस्य मार्गे गच्छन् आसीत्। द्वादशशिष्यान् पृथक् नीत्वा पथि, तान् अवदत्, 18“पश्यत, वयं येरुसलेमं गच्छामः। मानवपुत्रः महापुरोहितानां शास्त्रिणां च हस्तेषु अर्पयिष्यते। 19ते तस्य कृते प्राणदण्डस्य आदेशं श्रावयित्वा, विजातीयानां हस्तेषु अर्पयिष्यन्ति, येन ते उपहासं कृत्वा कशाभिः ताडयित्वा क्रूसकाष्ठे तं हनिष्यन्ति। परन्तु असौ तृतीये दिने ध्रुवं पुनः उत्थास्यति।”
एकस्याः मातुः अभिलाषा
(मर 10:35-40)
20तदानीं जेबेदिनः सुतयोः माता, पुत्राभ्यां सह येशुम् उपागमत्, प्रणिपत्य तं सा प्रार्थयितुम् इयेष। 21येशुः ताम् अब्रवीत्, “किम् इच्छसि?” सा कथितवती, “मम द्वौ इमौ पुत्रकौ। यदि भवान् इच्छेत् भवतः राज्ये अनयोः एकस्तु तव दक्षिणे, अपरः भवतः वामे स्थानम् आप्नुयात्।” 22येशुः ताम् अवदत्, “त्वया यत् प्रार्थ्यते तत् न ज्ञायते। येन चषकेन अहं पास्यामि, तेन युवाम् अपि किं पातुं शक्नुथः?” तौ तं “शक्नुवः” इति प्रोचतुः। 23येशुः अवदत्, “युवां मम चषकेण तु पास्यथः, किन्तु मे वामे दक्षिणे च उपवेशनम् युवयोः, मे अधिकारस्य विषयः न हि वर्तते। स्थानद्वयं तु तेषां कृते एवास्ति, येषां कृते तत् मदीयेन पित्रा विनिर्मितम् आस्ते।”
सेवायाः महत्वम्
(मर 10:41-45; लूका 22:25-27)
24यदा दश- प्रेरिताः इदं ज्ञातवन्तः, भ्रातृद्वाभ्यां भृशम् अक्रुध्यन्। 25येशुः शिष्यान् स्व अन्तिकम् आहूय प्रोक्तवान्, “यूयं जानीथ यत् विश्वस्य शासकाः स्वप्रजायाः उपरि निरड्.कुशं शासनं कुर्वन्ति, सत्ताधारिजनेषु अपि अधिकारं दर्शयन्ते। 26युष्मासु तादृशं वृत्तं न सम्भविष्यति। 27यतः युष्मासु यः महान् भवितुम् इच्छति, असौ युष्माकं सेवकः स्यात्, 28यतः मानवपुत्रः अपि स्वकीयां परिचर्याम् परतः न हि काड्.क्षति, किन्तु अन्येषां सेवां कर्तुम्, बहूनाम् उद्धाराय स्वप्राणान् दातुम् आगतः अस्ति।”
द्वाभ्याम् अन्धाभ्याम् दृष्टिदानम्
(मर 10:46-52; लूका 18:35-43)
29यरीहोनगरात् तेषु विनिर्गच्छत्सु, एकः विशालजनसमूहः येशुम् अनुजगाम। 30जनपथप्रान्ते द्वौ अन्धौ आस्ताम्। 31येशुः पुरतः गच्छन् अस्ति इति ज्ञात्वा इदम् ऊदतुः, प्रभो! दाऊदपुत्र! आवयोः भवान् दयताम्। 32येशुः तौ उभौ इदम् पृष्टवान्, “युवां किम् इच्छथः किं च मया युवयोः क्रियताम्?” 33-34तौ ऊदतुः, “व्रजेयुः नौ नेत्राणि स्वस्थतां प्रभो!” येशुः दयार्द्रताम् एत्य तयोः नेत्राणि स्पृष्टवान्। तत्क्षणम् एव तौ दृष्टिम् आसाद्य येशुम् अनुजग्मतुः।
اکنون انتخاب شده:
मत्ति 20: SANSKBSI
هایلایت
به اشتراک گذاشتن
مقایسه
کپی
می خواهید نکات برجسته خود را در همه دستگاه های خود ذخیره کنید؟ برای ورودثبت نام کنید یا اگر ثبت نام کرده اید وارد شوید
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.