मत्ति 17
17
प्रभोः येशोः रूपान्तरम्
(मर 9:2-8; लूका 9:20-36)
1अथ षट्सु दिवसेषु व्यतीतेषु, येशुः पतरसं याकूबं, तस्य भ्रातरं योहनं च सार्द्धं नीत्वा एकं तुडं. गिरिं निभृतम् आश्रयत्। 2-3तेषां समक्षमेव येशोः रूपान्तरम् अभवत्। तस्य मुखमंडलम् सूर्यवत् विदिद्युते। तस्य वस्त्राणि प्रकाशवत् प्रोज्ज्वलानि च अभवन्। मूसा एलियाहः च उभौ संलपन्तौ च तं प्रति तत्र स्थितानां शिष्याणां तदा दृक्पथम् आगतौ। 4पतरसः तदा येशुं प्रति अवादीत्, “प्रभो! कियत् शुभम् अस्ति इह संवासः, भवान् यदि अभिमन्यते, अहं अत्र पटवेश्मत्रयं निर्मापयिष्यामि। येषु एकं भवतः कृते, अपरं मूसार्थम्, चान्यत् एलियाहस्य कृते च। 5इत्थं तस्मिन् ब्रुवाणे च उज्जवलः एकः बलाहकः तेषु उपरि छादितवान्। तस्य मेघस्य मध्यात् च इयं वाणी अभूत् “अयं मम प्रियः पुत्रः, अस्मिन् अहं भृशम् प्रीतोऽस्मि; यूयम् अस्य वचनं शृणुथ।” 6एतां वाणीं श्रुत्वा शिष्याः सर्वे भृशं भीताः अधोमुखाः अपतन्। 7तदा येशुः उपागत्य स्वकरेण तान् स्पर्शम् कृतवान्, अवदत् च “उत्तिष्ठत, मा बिभीत।” 8ततस्ते स्विकां दृष्टिम् ऊर्ध्वंम् कृत्वा व्यलोकयन्, परन्तु येशुं विहाय न अन्यं कम् अपि ददृशुः।
नबिनः एलियाहस्य विषये प्रश्नः
(मर 9:9-13)
9येशुः पर्वतात् अवरोहणसमये समादिदेश, “यावत् मानवपुत्रः मृतकानां मध्यात् न उत्तिष्ठति तावत् इदं दर्शनं युष्माभिः कस्मैचित् अपि नहि कथितव्यम्।” 10तदा तस्य शिष्याः अपृच्छन्, “शास्त्रिणः कथम् कथयन्ति यत् प्रथमं एलियाहः आगमिष्यति?” 11येशुः प्रत्यवादीत्, “पूर्वम् एलियाहेन हि आगन्तव्यम्। 12परन्तु युष्मान् अहं ब्रवीमि, एलियाहः समागतः। लोकैः सः न अभिज्ञातः अस्ति अतः ते तं प्रति सर्वम् तत् कृतवन्तः यत् तेषां मनसि आगच्छत्। तथा मानवपुत्रः अपि तेभ्यः दुःखम् अवाप्स्यति।” 13शिष्यैः तदा अवबुद्धं यत् येशुः योहनजलसंस्कारदातुः विषये ब्रवीति।
अपदूतग्रस्तः बालकः
(मर 9:14-29; लूका 9:37-43a)
14यदा ते लोकसमूहस्यान्तिकम् आगच्छन्, तदा कश्चित् जनः आगच्छत्, येशोः समीपे भूमौ जानुनी निधाय अवदत्, 15”प्रभो! मां पुत्रमनुकम्पताम्। सः अपस्माररोगेणाक्रान्तोऽस्ति। तस्य दशा अति शोचनीया वर्तते, बहुधा सः जले अग्नौ च पतति, 16मया तव शिष्याणाम् अन्तिकम् असौ आनीतः, किन्तु ते मम पुत्रकं निरामयं कर्तुम् शक्ताः न बभूवुः।” 17येशुः उक्तवान्, “रे अविश्वासिन् दुष्टवंश! अहं त्वया सह कियत् कालपर्यन्तं स्थास्यामि? स्वपुत्रं मम अन्तिकम् शीघ्रम् आनय।” 18येशुः तं भूतं भर्त्सयामास, भूतश्च बालकात् निःससार, बालकः सद्यः निरामयः अभूत् च।
19तत्पश्चात् येशुम् उपागत्य शिष्याः तं च अतिनिभृतं पृष्टवन्तः, प्रभो! कस्मात् कारणात् अपदूतकम् निःसारयितुम् वयम् असमर्थाः अभवाम। 20येशुः तान् अवदत् - “युष्माकं विश्वासस्य अभावस्य कारणात्।” अहं युष्मान् ब्रवीमि, “यदि युष्माकं विश्वासः सर्षपबीजसम्मितः अपि वर्तते, तथा यूयम् अमुं पर्वतं ब्रूथ, अस्मात् स्थलात् तत्र अपसर, तर्हि सः अपसरिष्यति। युष्माकं कृते किंचिदपि असंभवम् न भविष्यति। 21परन्तु प्रार्थनया उपवासेन विना न अन्येन केनचित् विधिना इयम् अपदूतानां जातिः निःसारयितुं शक्यते।”
दुखभोगस्य पुनरुत्थानस्य द्वितीया भविष्यवाणी
(मर 9:30-32; लूका 9:43-45)
22यदा गलीलप्रदेशे येशुः शिष्यगणैः वृतः परिभ्रमन् आसीत्, तदा सः स्वशिष्यान् अब्रवीत्, “मानवपुत्रः लोकानाम् हस्ते अर्पयिष्यते। 23ते तं हनिष्यन्ति, पुनः तृतीये दिवसे सः पुनर्जीवितः भविष्यति।” एतद् आकर्ण्य शिष्याः भृशम् शोकाकुलाः अभवन्।
मन्दिरस्य शुल्कः
24यदा ते कफरनहूमम् आगतवन्तः, मन्दिरस्य शुल्कसंग्रहकर्तारः जनाः पतरसस्य अन्तिकम् आगत्य पृष्टवन्तः, “किं भवतां गुरुः मन्दिरस्य शुल्कं न ददाति?” 25सः प्रत्युतरत् “सः ददाति।” यदा तस्मिन् गृहं गते, तदीयकथनमप्रतीक्ष्य एव येशुः तं जगाद, “सिमोन! तव कः विचारः वर्तते? जगतः राजानः केभ्यः शुल्कम् ददते, स्वपुत्रेभ्यः अन्येभ्यः वा?” 26पतरसः प्राह, “अन्येभ्यः।” तदा तं येशुः अवदत्, “तदा तु पुत्रः शुल्कात् मुक्तः वर्तते। 27तथापि तेभ्यः कुत्सितम् उदाहरणं न ददीमहि, अतः समुद्रस्य तटं गत्वा त्वं बडिशं क्षिप। यः मत्स्यः बडिशे प्रथमः समापतेत्, तं गृहीत्वा तस्य मुखम् उद्घाटय अवलोकय, त्वं तस्मिन् मुखे एकां मुद्राम् अधिगमिष्यसि। ताम् आदाय च त्वं तेभ्यः आवयोः कृते देहि।”
اکنون انتخاب شده:
मत्ति 17: SANSKBSI
هایلایت
به اشتراک گذاشتن
مقایسه
کپی
می خواهید نکات برجسته خود را در همه دستگاه های خود ذخیره کنید؟ برای ورودثبت نام کنید یا اگر ثبت نام کرده اید وارد شوید
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.