YouVersion Logo
Search Icon

प्रकाशितं 5

5
1अनन्तरं तस्य सिहासनोपविष्टजनस्य दक्षिणस्ते ऽन्त र्बहिश्च लिखितं पत्रमेकं मया दृष्टं तत् सप्तमुद्राभिरङ्कितं।
2तत्पश्चाद् एको बलवान् दूतो दृष्टः स उच्चैः स्वरेण वाचमिमां घोषयति कः पत्रमेतद् विवरीतुं तम्मुद्रा मोचयितुञ्चार्हति?
3किन्तु स्वर्गमर्त्त्यपातालेषु तत् पत्रं विवरीतुं निरीक्षितुञ्च कस्यापि सामर्थ्यं नाभवत्।
4अतो यस्तत् पत्रं विवरीतुं निरीक्षितुञ्चार्हति तादृशजनस्याभावाद् अहं बहु रोदितवान्।
5किन्तु तेषां प्राचीनानाम् एको जनो मामवदत् मा रोदीः पश्य यो यिहूदावंशीयः सिंहो दायूदो मूलस्वरूपश्चास्ति स पत्रस्य तस्य सप्तमुद्राणाञ्च मोचनाय प्रमूतवान्।
6अपरं सिंहासनस्य चतुर्णां प्राणिनां प्राचीनवर्गस्य च मध्य एको मेषशावको मया दृष्टः स छेदित इव तस्य सप्तशृङ्गाणि सप्तलोचनानि च सन्ति तानि कृत्स्नां पृथिवीं प्रेषिता ईश्वरस्य सप्तात्मानः।
7स उपागत्य तस्य सिंहासनोपविष्टजनस्य दक्षिणकरात् तत् पत्रं गृहीतवान्।
8पत्रे गृहीते चत्वारः प्राणिनश्चतुर्विंंशतिप्राचीनाश्च तस्य मेषशावकस्यान्तिके प्रणिपतन्ति तेषाम् एकैकस्य करयो र्वीणां सुगन्धिद्रव्यैः परिपूर्णं स्वर्णमयपात्रञ्च तिष्ठति तानि पवित्रलोकानां प्रार्थनास्वरूपाणि।
9अपरं ते नूतनमेकं गीतमगायन्, यथा, ग्रहीतुं पत्रिकां तस्य मुद्रा मोचयितुं तथा। त्वमेवार्हसि यस्मात् त्वं बलिवत् छेदनं गतः। सर्व्वाभ्यो जातिभाषाभ्यः सर्व्वस्माद् वंशदेशतः। ईश्वरस्य कृते ऽस्मान् त्वं स्वीयरक्तेन क्रीतवान्।
10अस्मदीश्वरपक्षे ऽस्मान् नृपतीन् याजकानपि। कृतवांस्तेन राजत्वं करिष्यामो महीतले॥
11अपरं निरीक्षमाणेन मया सिंहासनस्य प्राणिचतुष्टयस्य प्राचीनवर्गस्य च परितो बहूनां दूतानां रवः श्रुतः, तेषां संख्या अयुतायुतानि सहस्रसहस्त्राणि च।
12तैरुच्चैरिदम् उक्तं, पराक्रमं धनं ज्ञानं शक्तिं गौरवमादरं। प्रशंसाञ्चार्हति प्राप्तुं छेदितो मेषशावकः॥
13अपरं स्वर्गमर्त्त्यपातालसागरेषु यानि विद्यन्ते तेषां सर्व्वेषां सृष्टवस्तूनां वागियं मया श्रुता, प्रशंसां गौरवं शौर्य्यम् आधिपत्यं सनातनं। सिंहसनोपविष्टश्च मेषवत्सश्च गच्छतां।
14अपरं ते चत्वारः प्राणिनः कथितवन्तस्तथास्तु, ततश्चतुर्विंशतिप्राचीना अपि प्रणिपत्य तम् अनन्तकालजीविनं प्राणमन्।

Highlight

Copy

Compare

Share

None

Want to have your highlights saved across all your devices? Sign up or sign in