1
प्रकाशितं 5:9
सत्यवेदः। Sanskrit NT in Devanagari
SAN-DN
अपरं ते नूतनमेकं गीतमगायन्, यथा, ग्रहीतुं पत्रिकां तस्य मुद्रा मोचयितुं तथा। त्वमेवार्हसि यस्मात् त्वं बलिवत् छेदनं गतः। सर्व्वाभ्यो जातिभाषाभ्यः सर्व्वस्माद् वंशदेशतः। ईश्वरस्य कृते ऽस्मान् त्वं स्वीयरक्तेन क्रीतवान्।
Compare
Explore प्रकाशितं 5:9
2
प्रकाशितं 5:12
तैरुच्चैरिदम् उक्तं, पराक्रमं धनं ज्ञानं शक्तिं गौरवमादरं। प्रशंसाञ्चार्हति प्राप्तुं छेदितो मेषशावकः॥
Explore प्रकाशितं 5:12
3
प्रकाशितं 5:10
अस्मदीश्वरपक्षे ऽस्मान् नृपतीन् याजकानपि। कृतवांस्तेन राजत्वं करिष्यामो महीतले॥
Explore प्रकाशितं 5:10
4
प्रकाशितं 5:13
अपरं स्वर्गमर्त्त्यपातालसागरेषु यानि विद्यन्ते तेषां सर्व्वेषां सृष्टवस्तूनां वागियं मया श्रुता, प्रशंसां गौरवं शौर्य्यम् आधिपत्यं सनातनं। सिंहसनोपविष्टश्च मेषवत्सश्च गच्छतां।
Explore प्रकाशितं 5:13
5
प्रकाशितं 5:5
किन्तु तेषां प्राचीनानाम् एको जनो मामवदत् मा रोदीः पश्य यो यिहूदावंशीयः सिंहो दायूदो मूलस्वरूपश्चास्ति स पत्रस्य तस्य सप्तमुद्राणाञ्च मोचनाय प्रमूतवान्।
Explore प्रकाशितं 5:5