फिलिपिनः 1
1
1पौलतीमथिनामानौ यीशुख्रीष्टस्य दासौ फिलिपिनगरस्थान् ख्रीष्टयीशोः सर्व्वान् पवित्रलोकान् समितेरध्यक्षान् परिचारकांश्च प्रति पत्रं लिखतः।
2अस्माकं तात ईश्वरः प्रभु र्यीशुख्रीष्टश्च युष्मभ्यं प्रसादस्य शान्तेश्च भोगं देयास्तां।
3अहं निरन्तरं निजसर्व्वप्रार्थनासु युष्माकं सर्व्वेषां कृते सानन्दं प्रार्थनां कुर्व्वन्
4यति वारान् युष्माकं स्मरामि तति वारान् आ प्रथमाद् अद्य यावद्
5युष्माकं सुसंवादभागित्वकारणाद् ईश्वरं धन्यं वदामि।
6युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।
7युष्मान् सर्व्वान् अधि मम तादृशो भावो यथार्थो यतोऽहं कारावस्थायां प्रत्युत्तरकरणे सुसंवादस्य प्रामाण्यकरणे च युष्मान् सर्व्वान् मया सार्द्धम् एकानुग्रहस्य भागिनो मत्वा स्वहृदये धारयामि।
8अपरम् अहं ख्रीष्टयीशोः स्नेहवत् स्नेहेन युष्मान् कीदृशं काङ्क्षामि तदधीश्वरो मम साक्षी विद्यते।
9मया यत् प्रार्थ्यते तद् इदं युष्माकं प्रेम नित्यं वृद्धिं गत्वा
10ज्ञानस्य विशिष्टानां परीक्षिकायाश्च सर्व्वविधबुद्धे र्बाहुल्यं फलतु,
11ख्रीष्टस्य दिनं यावद् युष्माकं सारल्यं निर्विघ्नत्वञ्च भवतु, ईश्वरस्य गौरवाय प्रशंसायै च यीशुना ख्रीष्टेन पुण्यफलानां पूर्णता युष्मभ्यं दीयताम् इति।
12हे भ्रातरः, मां प्रति यद् यद् घटितं तेन सुसंवादप्रचारस्य बाधा नहि किन्तु वृद्धिरेव जाता तद् युष्मान् ज्ञापयितुं कामयेऽहं।
13अपरम् अहं ख्रीष्टस्य कृते बद्धोऽस्मीति राजपुर्य्याम् अन्यस्थानेषु च सर्व्वेषां निकटे सुस्पष्टम् अभवत्,
14प्रभुसम्बन्धीया अनेके भ्रातरश्च मम बन्धनाद् आश्वासं प्राप्य वर्द्धमानेनोत्साहेन निःक्षोभं कथां प्रचारयन्ति।
15केचिद् द्वेषाद् विरोधाच्चापरे केचिच्च सद्भावात् ख्रीष्टं घोषयन्ति;
16ये विरोधात् ख्रीष्टं घोषयन्ति ते पवित्रभावात् तन्न कुर्व्वन्तो मम बन्धनानि बहुतरक्लोशदायीनि कर्त्तुम् इच्छन्ति।
17ये च प्रेम्ना घोषयन्ति ते सुसंवादस्य प्रामाण्यकरणेऽहं नियुक्तोऽस्मीति ज्ञात्वा तत् कुर्व्वन्ति।
18किं बहुना? कापट्यात् सरलभावाद् वा भवेत्, येन केनचित् प्रकारेण ख्रीष्टस्य घोषणा भवतीत्यस्मिन् अहम् आनन्दाम्यानन्दिष्यामि च।
19युष्माकं प्रार्थनया यीशुख्रीष्टस्यात्मनश्चोपकारेण तत् मन्निस्तारजनकं भविष्यतीति जानामि।
20तत्र च ममाकाङ्क्षा प्रत्याशा च सिद्धिं गमिष्यति फलतोऽहं केनापि प्रकारेण न लज्जिष्ये किन्तु गते सर्व्वस्मिन् काले यद्वत् तद्वद् इदानीमपि सम्पूर्णोत्साहद्वारा मम शरीरेण ख्रीष्टस्य महिमा जीवने मरणे वा प्रकाशिष्यते।
21यतो मम जीवनं ख्रीष्टाय मरणञ्च लाभाय।
22किन्तु यदि शरीरे मया जीवितव्यं तर्हि तत् कर्म्मफलं फलिष्यति तस्मात् किं वरितव्यं तन्मया न ज्ञायते।
23द्वाभ्याम् अहं सम्पीड्ये, देहवासत्यजनाय ख्रीष्टेन सहवासाय च ममाभिलाषो भवति यतस्तत् सर्व्वोत्तमं।
24किन्तु देहे ममावस्थित्या युष्माकम् अधिकप्रयोजनं।
25अहम् अवस्थास्ये युष्माभिः सर्व्वैः सार्द्धम् अवस्थितिं करिष्ये च तया च विश्वासे युष्माकं वृद्ध्यानन्दौ जनिष्येते तदहं निश्चितं जानामि।
26तेन च मत्तोऽर्थतो युष्मत्समीपे मम पुनरुपस्थितत्वात् यूयं ख्रीष्टेन यीशुना बहुतरम् आह्लादं लप्स्यध्वे।
27यूयं सावधाना भूत्वा ख्रीष्टस्य सुसंवादस्योपयुक्तम् आचारं कुरुध्वं यतोऽहं युष्मान् उपागत्य साक्षात् कुर्व्वन् किं वा दूरे तिष्ठन् युष्माकं यां वार्त्तां श्रोतुम् इच्छामि सेयं यूयम् एकात्मानस्तिष्ठथ, एकमनसा सुसंवादसम्बन्धीयविश्वासस्य पक्षे यतध्वे, विपक्षैश्च केनापि प्रकारेण न व्याकुलीक्रियध्व इति।
28तत् तेषां विनाशस्य लक्षणं युष्माकञ्चेश्वरदत्तं परित्राणस्य लक्षणं भविष्यति।
29यतो येन युष्माभिः ख्रीष्टे केवलविश्वासः क्रियते तन्नहि किन्तु तस्य कृते क्लेशोऽपि सह्यते तादृशो वरः ख्रीष्टस्यानुरोधाद् युष्माभिः प्रापि,
30तस्मात् मम यादृशं युद्धं युष्माभिरदर्शि साम्प्रतं श्रूयते च तादृशं युद्धं युष्माकम् अपि भवति।
Currently Selected:
फिलिपिनः 1: SAN-DN
Highlight
Copy
Compare
Share
Want to have your highlights saved across all your devices? Sign up or sign in
© SanskritBible.in । Licensed under Creative Commons Attribution-ShareAlike 4.0 International License.