यूयं सावधाना भूत्वा ख्रीष्टस्य सुसंवादस्योपयुक्तम् आचारं कुरुध्वं यतोऽहं युष्मान् उपागत्य साक्षात् कुर्व्वन् किं वा दूरे तिष्ठन् युष्माकं यां वार्त्तां श्रोतुम् इच्छामि सेयं यूयम् एकात्मानस्तिष्ठथ, एकमनसा सुसंवादसम्बन्धीयविश्वासस्य पक्षे यतध्वे, विपक्षैश्च केनापि प्रकारेण न व्याकुलीक्रियध्व इति।