YouVersion Logo
Search Icon

इब्रिणः 11

11
1विश्वास आशंसितानां निश्चयः, अदृश्यानां विषयाणां दर्शनं भवति।
2तेन विश्वासेन प्राञ्चो लोकाः प्रामाण्यं प्राप्तवन्तः।
3अपरम् ईश्वरस्य वाक्येन जगन्त्यसृज्यन्त, दृष्टवस्तूनि च प्रत्यक्षवस्तुभ्यो नोदपद्यन्तैतद् वयं विश्वासेन बुध्यामहे।
4विश्वासेन हाबिल् ईश्वरमुद्दिश्य काबिलः श्रेष्ठं बलिदानं कृतवान् तस्माच्चेश्वरेण तस्य दानान्यधि प्रमाणे दत्ते स धार्म्मिक इत्यस्य प्रमाणं लब्धवान् तेन विश्वासेन च स मृतः सन् अद्यापि भाषते।
5विश्वासेन हनोक् यथा मृत्युं न पश्येत् तथा लोकान्तरं नीतः, तस्योद्देशश्च केनापि न प्रापि यत ईश्वरस्तं लोकान्तरं नीतवान्, तत्प्रमाणमिदं तस्य लोकान्तरीकरणात् पूर्व्वं स ईश्वराय रोचितवान् इति प्रमाणं प्राप्तवान्।
6किन्तु विश्वासं विना कोऽपीश्वराय रोचितुं न शक्नोति यत ईश्वरोऽस्ति स्वान्वेषिलोकेभ्यः पुरस्कारं ददाति चेतिकथायाम् ईश्वरशरणागतै र्विश्वसितव्यं।
7अपरं तदानीं यान्यदृश्यान्यासन् तानीश्वरेणादिष्टः सन् नोहो विश्वासेन भीत्वा स्वपरिजनानां रक्षार्थं पोतं निर्म्मितवान् तेन च जगज्जनानां दोषान् दर्शितवान् विश्वासात् लभ्यस्य पुण्यस्याधिकारी बभूव च।
8विश्वासेनेब्राहीम् आहूतः सन् आज्ञां गृहीत्वा यस्य स्थानस्याधिकारस्तेन प्राप्तव्यस्तत् स्थानं प्रस्थितवान् किन्तु प्रस्थानसमये क्क यामीति नाजानात्।
9विश्वासेन स प्रतिज्ञाते देशे परदेशवत् प्रवसन् तस्याः प्रतिज्ञायाः समानांशिभ्याम् इस्हाका याकूबा च सह दूष्यवास्यभवत्।
10यस्मात् स ईश्वरेण निर्म्मितं स्थापितञ्च भित्तिमूलयुक्तं नगरं प्रत्यैक्षत।
11अपरञ्च विश्वासेन सारा वयोतिक्रान्ता सन्त्यपि गर्भधारणाय शक्तिं प्राप्य पुत्रवत्यभवत्, यतः सा प्रतिज्ञाकारिणं विश्वास्यम् अमन्यत।
12ततो हेतो र्मृतकल्पाद् एकस्मात् जनाद् आकाशीयनक्षत्राणीव गणनातीताः समुद्रतीरस्थसिकता इव चासंख्या लोका उत्पेदिरे।
13एते सर्व्वे प्रतिज्ञायाः फलान्यप्राप्य केवलं दूरात् तानि निरीक्ष्य वन्दित्वा च, पृथिव्यां वयं विदेशिनः प्रवासिनश्चास्मह इति स्वीकृत्य विश्वासेन प्राणान् तत्यजुः।
14ये तु जना इत्थं कथयन्ति तैः पैतृकदेशो ऽस्माभिरन्विष्यत इति प्रकाश्यते।
15ते यस्माद् देशात् निर्गतास्तं यद्यस्मरिष्यन् तर्हि परावर्त्तनाय समयम् अलप्स्यन्त।
16किन्तु ते सर्व्वोत्कृष्टम् अर्थतः स्वर्गीयं देशम् आकाङ्क्षन्ति तस्माद् ईश्वरस्तानधि न लज्जमानस्तेषाम् ईश्वर इति नाम गृहीतवान् यतः स तेषां कृते नगरमेकं संस्थापितवान्।
17अपरम् इब्राहीमः परीक्षायां जातायां स विश्वासेनेस्हाकम् उत्ससर्ज,
18वस्तुत इस्हाकि तव वंशो विख्यास्यत इति वाग् यमधि कथिता तम् अद्वितीयं पुत्रं प्रतिज्ञाप्राप्तः स उत्ससर्ज।
19यत ईश्वरो मृतानप्युत्थापयितुं शक्नोतीति स मेने तस्मात् स उपमारूपं तं लेभे।
20अपरम् इस्हाक् विश्वासेन याकूब् एषावे च भाविविषयानध्याशिषं ददौ।
21अपरं याकूब् मरणकाले विश्वासेन यूषफः पुत्रयोरेकैकस्मै जनायाशिषं ददौ यष्ट्या अग्रभागे समालम्ब्य प्रणनाम च।
22अपरं यूषफ् चरमकाले विश्वासेनेस्रायेल्वंशीयानां मिसरदेशाद् बहिर्गमनस्य वाचं जगाद निजास्थीनि चाधि समादिदेश।
23नवजातो मूसाश्च विश्वासात् त्राीन् मासान् स्वपितृभ्याम् अगोप्यत यतस्तौ स्वशिशुं परमसुन्दरं दृष्टवन्तौ राजाज्ञाञ्च न शङ्कितवन्तौ।
24अपरं वयःप्राप्तो मूसा विश्वासात् फिरौणो दौहित्र इति नाम नाङ्गीचकार।
25यतः स क्षणिकात् पापजसुखभोगाद् ईश्वरस्य प्रजाभिः सार्द्धं दुःखभोगं वव्रे।
26तथा मिसरदेशीयनिधिभ्यः ख्रीष्टनिमित्तां निन्दां महतीं सम्पत्तिं मेने यतो हेतोः स पुरस्कारदानम् अपैक्षत।
27अपरं स विश्वासेन राज्ञः क्रोधात् न भीत्वा मिसरदेशं परितत्याज, यतस्तेनादृश्यं वीक्षमाणेनेव धैर्य्यम् आलम्बि।
28अपरं प्रथमजातानां हन्ता यत् स्वीयलोकान् न स्पृशेत् तदर्थं स विश्वासेन निस्तारपर्व्वीयबलिच्छेदनं रुधिरसेचनञ्चानुष्ठितावान्।
29अपरं ते विश्वासात् स्थलेनेव सूफ्सागरेण जग्मुः किन्तु मिस्रीयलोकास्तत् कर्त्तुम् उपक्रम्य तोयेषु ममज्जुः।
30अपरञ्च विश्वासात् तैः सप्ताहं यावद् यिरीहोः प्राचीरस्य प्रदक्षिणे कृते तत् निपपात।
31विश्वासाद् राहब्नामिका वेश्यापि प्रीत्या चारान् अनुगृह्याविश्वासिभिः सार्द्धं न विननाश।
32अधिकं किं कथयिष्यामि? गिदियोनो बारकः शिम्शोनो यिप्तहो दायूद् शिमूयेलो भविष्यद्वादिनश्चैतेषां वृत्तान्तकथनाय मम समयाभावो भविष्यति।
33विश्वासात् ते राज्यानि वशीकृतवन्तो धर्म्मकर्म्माणि साधितवन्तः प्रतिज्ञानां फलं लब्धवन्तः सिंहानां मुखानि रुद्धवन्तो
34वह्नेर्दाहं निर्व्वापितवन्तः खङ्गधाराद् रक्षां प्राप्तवन्तो दौर्ब्बल्ये सबलीकृता युद्धे पराक्रमिणो जाताः परेषां सैन्यानि दवयितवन्तश्च।
35योषितः पुनरुत्थानेन मृतान् आत्मजान् लेभिरेे, अपरे च श्रेष्ठोत्थानस्य प्राप्तेराशया रक्षाम् अगृहीत्वा ताडनेन मृतवन्तः।
36अपरे तिरस्कारैः कशाभि र्बन्धनैः कारया च परीक्षिताः।
37बहवश्च प्रस्तराघातै र्हताः करपत्रै र्वा विदीर्णा यन्त्रै र्वा क्लिष्टाः खङ्गधारै र्वा व्यापादिताः। ते मेषाणां छागानां वा चर्म्माणि परिधाय दीनाः पीडिता दुःखार्त्ताश्चाभ्राम्यन्।
38संसारो येषाम् अयोग्यस्ते निर्जनस्थानेषु पर्व्वतेषु गह्वरेषु पृथिव्याश्छिद्रेषु च पर्य्यटन्।
39एतैः सर्व्वै र्विश्वासात् प्रमाणं प्रापि किन्तु प्रतिज्ञायाः फलं न प्रापि।
40यतस्ते यथास्मान् विना सिद्धा न भवेयुस्तथैवेश्वरेणास्माकं कृते श्रेष्ठतरं किमपि निर्दिदिशे।

Highlight

Copy

Compare

Share

None

Want to have your highlights saved across all your devices? Sign up or sign in