1
इब्रिणः 11:1-2
सत्यवेदः। Sanskrit NT in Devanagari
SAN-DN
विश्वास आशंसितानां निश्चयः, अदृश्यानां विषयाणां दर्शनं भवति। तेन विश्वासेन प्राञ्चो लोकाः प्रामाण्यं प्राप्तवन्तः।
Compare
Explore इब्रिणः 11:1-2
2
इब्रिणः 11:6
किन्तु विश्वासं विना कोऽपीश्वराय रोचितुं न शक्नोति यत ईश्वरोऽस्ति स्वान्वेषिलोकेभ्यः पुरस्कारं ददाति चेतिकथायाम् ईश्वरशरणागतै र्विश्वसितव्यं।
Explore इब्रिणः 11:6
3
इब्रिणः 11:3
अपरम् ईश्वरस्य वाक्येन जगन्त्यसृज्यन्त, दृष्टवस्तूनि च प्रत्यक्षवस्तुभ्यो नोदपद्यन्तैतद् वयं विश्वासेन बुध्यामहे।
Explore इब्रिणः 11:3
4
इब्रिणः 11:8-9
विश्वासेनेब्राहीम् आहूतः सन् आज्ञां गृहीत्वा यस्य स्थानस्याधिकारस्तेन प्राप्तव्यस्तत् स्थानं प्रस्थितवान् किन्तु प्रस्थानसमये क्क यामीति नाजानात्। विश्वासेन स प्रतिज्ञाते देशे परदेशवत् प्रवसन् तस्याः प्रतिज्ञायाः समानांशिभ्याम् इस्हाका याकूबा च सह दूष्यवास्यभवत्।
Explore इब्रिणः 11:8-9
5
इब्रिणः 11:7
अपरं तदानीं यान्यदृश्यान्यासन् तानीश्वरेणादिष्टः सन् नोहो विश्वासेन भीत्वा स्वपरिजनानां रक्षार्थं पोतं निर्म्मितवान् तेन च जगज्जनानां दोषान् दर्शितवान् विश्वासात् लभ्यस्य पुण्यस्याधिकारी बभूव च।
Explore इब्रिणः 11:7
6
इब्रिणः 11:5
विश्वासेन हनोक् यथा मृत्युं न पश्येत् तथा लोकान्तरं नीतः, तस्योद्देशश्च केनापि न प्रापि यत ईश्वरस्तं लोकान्तरं नीतवान्, तत्प्रमाणमिदं तस्य लोकान्तरीकरणात् पूर्व्वं स ईश्वराय रोचितवान् इति प्रमाणं प्राप्तवान्।
Explore इब्रिणः 11:5
7
इब्रिणः 11:4
विश्वासेन हाबिल् ईश्वरमुद्दिश्य काबिलः श्रेष्ठं बलिदानं कृतवान् तस्माच्चेश्वरेण तस्य दानान्यधि प्रमाणे दत्ते स धार्म्मिक इत्यस्य प्रमाणं लब्धवान् तेन विश्वासेन च स मृतः सन् अद्यापि भाषते।
Explore इब्रिणः 11:4
8
इब्रिणः 11:11
अपरञ्च विश्वासेन सारा वयोतिक्रान्ता सन्त्यपि गर्भधारणाय शक्तिं प्राप्य पुत्रवत्यभवत्, यतः सा प्रतिज्ञाकारिणं विश्वास्यम् अमन्यत।
Explore इब्रिणः 11:11
9
इब्रिणः 11:10
यस्मात् स ईश्वरेण निर्म्मितं स्थापितञ्च भित्तिमूलयुक्तं नगरं प्रत्यैक्षत।
Explore इब्रिणः 11:10
10
इब्रिणः 11:24-27
अपरं वयःप्राप्तो मूसा विश्वासात् फिरौणो दौहित्र इति नाम नाङ्गीचकार। यतः स क्षणिकात् पापजसुखभोगाद् ईश्वरस्य प्रजाभिः सार्द्धं दुःखभोगं वव्रे। तथा मिसरदेशीयनिधिभ्यः ख्रीष्टनिमित्तां निन्दां महतीं सम्पत्तिं मेने यतो हेतोः स पुरस्कारदानम् अपैक्षत। अपरं स विश्वासेन राज्ञः क्रोधात् न भीत्वा मिसरदेशं परितत्याज, यतस्तेनादृश्यं वीक्षमाणेनेव धैर्य्यम् आलम्बि।
Explore इब्रिणः 11:24-27
11
इब्रिणः 11:17
अपरम् इब्राहीमः परीक्षायां जातायां स विश्वासेनेस्हाकम् उत्ससर्ज
Explore इब्रिणः 11:17
12
इब्रिणः 11:31
विश्वासाद् राहब्नामिका वेश्यापि प्रीत्या चारान् अनुगृह्याविश्वासिभिः सार्द्धं न विननाश।
Explore इब्रिणः 11:31
13
इब्रिणः 11:29
अपरं ते विश्वासात् स्थलेनेव सूफ्सागरेण जग्मुः किन्तु मिस्रीयलोकास्तत् कर्त्तुम् उपक्रम्य तोयेषु ममज्जुः।
Explore इब्रिणः 11:29
14
इब्रिणः 11:30
अपरञ्च विश्वासात् तैः सप्ताहं यावद् यिरीहोः प्राचीरस्य प्रदक्षिणे कृते तत् निपपात।
Explore इब्रिणः 11:30
15
इब्रिणः 11:28
अपरं प्रथमजातानां हन्ता यत् स्वीयलोकान् न स्पृशेत् तदर्थं स विश्वासेन निस्तारपर्व्वीयबलिच्छेदनं रुधिरसेचनञ्चानुष्ठितावान्।
Explore इब्रिणः 11:28
16
इब्रिणः 11:22
अपरं यूषफ् चरमकाले विश्वासेनेस्रायेल्वंशीयानां मिसरदेशाद् बहिर्गमनस्य वाचं जगाद निजास्थीनि चाधि समादिदेश।
Explore इब्रिणः 11:22
17
इब्रिणः 11:21
अपरं याकूब् मरणकाले विश्वासेन यूषफः पुत्रयोरेकैकस्मै जनायाशिषं ददौ यष्ट्या अग्रभागे समालम्ब्य प्रणनाम च।
Explore इब्रिणः 11:21
18
इब्रिणः 11:20
अपरम् इस्हाक् विश्वासेन याकूब् एषावे च भाविविषयानध्याशिषं ददौ।
Explore इब्रिणः 11:20