१ करिन्थिनः 6
6
1युष्माकमेकस्य जनस्यापरेण सह विवादे जाते स पवित्रलोकै र्विचारमकारयन् किम् अधार्म्मिकलोकै र्विचारयितुं प्रोत्सहते?
2जगतोऽपि विचारणं पवित्रलोकैः कारिष्यत एतद् यूयं किं न जानीथ? अतो जगद् यदि युष्माभि र्विचारयितव्यं तर्हि क्षुद्रतमविचारेषु यूयं किमसमर्थाः?
3दूता अप्यस्माभि र्विचारयिष्यन्त इति किं न जानीथ? अत ऐहिकविषयाः किम् अस्माभि र्न विचारयितव्या भवेयुः?
4ऐहिकविषयस्य विचारे युष्माभिः कर्त्तव्ये ये लोकाः समितौ क्षुद्रतमास्त एव नियुज्यन्तां।
5अहं युष्मान् त्रपयितुमिच्छन् वदामि यृष्मन्मध्ये किमेकोऽपि मनुष्यस्तादृग् बुद्धिमान्नहि यो भ्रातृविवादविचारणे समर्थः स्यात्?
6किञ्चैको भ्राता भ्रात्रान्येन किमविश्वासिनां विचारकाणां साक्षाद् विवदते? यष्मन्मध्ये विवादा विद्यन्त एतदपि युष्माकं दोषः।
7यूयं कुतोऽन्यायसहनं क्षतिसहनं वा श्रेयो न मन्यध्वे?
8किन्तु यूयमपि भ्रातृनेव प्रत्यन्यायं क्षतिञ्च कुरुथ किमेतत्?
9ईश्वरस्य राज्येऽन्यायकारिणां लोकानामधिकारो नास्त्येतद् यूयं किं न जानीथ? मा वञ्च्यध्वं, ये व्यभिचारिणो देवार्च्चिनः पारदारिकाः स्त्रीवदाचारिणः पुंमैथुनकारिणस्तस्करा
10लोभिनो मद्यपा निन्दका उपद्राविणो वा त ईश्वरस्य राज्यभागिनो न भविष्यन्ति।
11यूयञ्चैवंविधा लोका आस्त किन्तु प्रभो र्यीशो र्नाम्नास्मदीश्वरस्यात्मना च यूयं प्रक्षालिताः पाविताः सपुण्यीकृताश्च।
12मदर्थं सर्व्वं द्रव्यम् अप्रतिषिद्धं किन्तु न सर्व्वं हितजनकं।मदर्थं सर्व्वमप्रतिषिद्धं तथाप्यहं कस्यापि द्रव्यस्य वशीकृतो न भविष्यामि।
13उदराय भक्ष्याणि भक्ष्येभ्यश्चोदरं, किन्तु भक्ष्योदरे ईश्वरेण नाशयिष्येते; अपरं देहो न व्यभिचाराय किन्तु प्रभवे प्रभुश्च देहाय।
14यश्चेश्वरः प्रभुमुत्थापितवान् स स्वशक्त्यास्मानप्युत्थापयिष्यति।
15युष्माकं यानि शरीराणि तानि ख्रीष्टस्याङ्गानीति किं यूयं न जानीथ? अतः ख्रीष्टस्य यान्यङ्गानि तानि मयापहृत्य वेश्याया अङ्गानि किं कारिष्यन्ते? तन्न भवतु।
16यः कश्चिद् वेश्यायाम् आसज्यते स तया सहैकदेहो भवति किं यूयमेतन्न जानीथ? यतो लिखितमास्ते, यथा, तौ द्वौ जनावेकाङ्गौ भविष्यतः।
17मानवा यान्यन्यानि कलुषाणि कुर्व्वते तानि वपु र्न समाविशन्ति किन्तु व्यभिचारिणा स्वविग्रहस्य विरुद्धं कल्मषं क्रियते।
18मानवा यान्यन्यानि कलुषाणि कुर्व्वते तानि वपु र्न समाविशन्ति किन्तु व्यभिचारिणा स्वविग्रहस्य विरुद्धं कल्मषं क्रियते।
19युष्माकं यानि वपूंसि तानि युष्मदन्तःस्थितस्येश्वराल्लब्धस्य पवित्रस्यात्मनो मन्दिराणि यूयञ्च स्वेषां स्वामिनो नाध्वे किमेतद् युष्माभि र्न ज्ञायते?
20यूयं मूल्येन क्रीता अतो वपुर्मनोभ्याम् ईश्वरो युष्माभिः पूज्यतां यत ईश्वर एव तयोः स्वामी।
Currently Selected:
१ करिन्थिनः 6: SAN-DN
Highlight
Copy
Compare
Share
Want to have your highlights saved across all your devices? Sign up or sign in
© SanskritBible.in । Licensed under Creative Commons Attribution-ShareAlike 4.0 International License.