1
१ करिन्थिनः 6:19-20
सत्यवेदः। Sanskrit NT in Devanagari
SAN-DN
युष्माकं यानि वपूंसि तानि युष्मदन्तःस्थितस्येश्वराल्लब्धस्य पवित्रस्यात्मनो मन्दिराणि यूयञ्च स्वेषां स्वामिनो नाध्वे किमेतद् युष्माभि र्न ज्ञायते? यूयं मूल्येन क्रीता अतो वपुर्मनोभ्याम् ईश्वरो युष्माभिः पूज्यतां यत ईश्वर एव तयोः स्वामी।
Compare
Explore १ करिन्थिनः 6:19-20
2
१ करिन्थिनः 6:9-10
ईश्वरस्य राज्येऽन्यायकारिणां लोकानामधिकारो नास्त्येतद् यूयं किं न जानीथ? मा वञ्च्यध्वं, ये व्यभिचारिणो देवार्च्चिनः पारदारिकाः स्त्रीवदाचारिणः पुंमैथुनकारिणस्तस्करा लोभिनो मद्यपा निन्दका उपद्राविणो वा त ईश्वरस्य राज्यभागिनो न भविष्यन्ति।
Explore १ करिन्थिनः 6:9-10
3
१ करिन्थिनः 6:18
मानवा यान्यन्यानि कलुषाणि कुर्व्वते तानि वपु र्न समाविशन्ति किन्तु व्यभिचारिणा स्वविग्रहस्य विरुद्धं कल्मषं क्रियते।
Explore १ करिन्थिनः 6:18
4
१ करिन्थिनः 6:12
मदर्थं सर्व्वं द्रव्यम् अप्रतिषिद्धं किन्तु न सर्व्वं हितजनकं।मदर्थं सर्व्वमप्रतिषिद्धं तथाप्यहं कस्यापि द्रव्यस्य वशीकृतो न भविष्यामि।
Explore १ करिन्थिनः 6:12
5
१ करिन्थिनः 6:14
यश्चेश्वरः प्रभुमुत्थापितवान् स स्वशक्त्यास्मानप्युत्थापयिष्यति।
Explore १ करिन्थिनः 6:14