1
फिलिपिनः 2:3-4
सत्यवेदः। Sanskrit NT in Devanagari
SAN-DN
विरोधाद् दर्पाद् वा किमपि मा कुरुत किन्तु नम्रतया स्वेभ्योऽपरान् विशिष्टान् मन्यध्वं। केवलम् आत्महिताय न चेष्टमानाः परहितायापि चेष्टध्वं।
Compare
Explore फिलिपिनः 2:3-4
2
फिलिपिनः 2:5
ख्रीष्टस्य यीशो र्यादृशः स्वभावो युष्माकम् अपि तादृशो भवतु।
Explore फिलिपिनः 2:5
3
फिलिपिनः 2:6-8
स ईश्वररूपी सन् स्वकीयाम् ईश्वरतुल्यतां श्लाघास्पदं नामन्यत, किन्तु स्वं शून्यं कृत्वा दासरूपी बभूव नराकृतिं लेभे च। इत्थं नरमूर्त्तिम् आश्रित्य नम्रतां स्वीकृत्य मृत्योरर्थतः क्रुशीयमृत्योरेव भोगायाज्ञाग्राही बभूव।
Explore फिलिपिनः 2:6-8
4
फिलिपिनः 2:13
यत ईश्वर एव स्वकीयानुरोधाद् युष्मन्मध्ये मनस्कामनां कर्म्मसिद्धिञ्च विदधाति।
Explore फिलिपिनः 2:13
5
फिलिपिनः 2:9-11
तत्कारणाद् ईश्वरोऽपि तं सर्व्वोन्नतं चकार यच्च नाम सर्व्वेषां नाम्नां श्रेष्ठं तदेव तस्मै ददौ, ततस्तस्मै यीशुनाम्ने स्वर्गमर्त्यपातालस्थितैः सर्व्वै र्जानुपातः कर्त्तव्यः, तातस्थेश्वरस्य महिम्ने च यीशुख्रीष्टः प्रभुरिति जिह्वाभिः स्वीकर्त्तव्यं।
Explore फिलिपिनः 2:9-11
6
फिलिपिनः 2:14-15
यूयं कलहविवादर्विजतम् आचारं कुर्व्वन्तोऽनिन्दनीया अकुटिला ईश्वरस्य निष्कलङ्काश्च सन्तानाइव वक्रभावानां कुटिलाचारिणाञ्च लोकानां मध्ये तिष्ठत
Explore फिलिपिनः 2:14-15
7
फिलिपिनः 2:12
अतो हे प्रियतमाः, युष्माभि र्यद्वत् सर्व्वदा क्रियते तद्वत् केवले ममोपस्थितिकाले तन्नहि किन्त्विदानीम् अनुपस्थितेऽपि मयि बहुतरयत्नेनाज्ञां गृहीत्वा भयकम्पाभ्यां स्वस्वपरित्राणं साध्यतां।
Explore फिलिपिनः 2:12