Biểu trưng YouVersion
Biểu tượng Tìm kiếm

मथिः 28:12-15

मथिः 28:12-15 SAN-DN

ते प्राचीनैः समं संसदं कृत्वा मन्त्रयन्तो बहुमुद्राः सेनाभ्यो दत्त्वावदन्, अस्मासु निद्रितेषु तच्छिष्या यामिन्यामागत्य तं हृत्वानयन्, इति यूयं प्रचारयत। यद्येतदधिपतेः श्रोत्रगोचरीभवेत्, तर्हि तं बोधयित्वा युष्मानविष्यामः। ततस्ते मुद्रा गृहीत्वा शिक्षानुरूपं कर्म्म चक्रुः, यिहूदीयानां मध्ये तस्याद्यापि किंवदन्ती विद्यते।