YouVersion Logo
Search Icon

प्रकाशितं 14

14
1ततः परं निरीक्षमाणेन मया मेषशावको दृष्टः स सियोनपर्व्वतस्योपर्य्यतिष्ठत्, अपरं येषां भालेषु तस्य नाम तत्पितुश्च नाम लिखितमास्ते तादृशाश्चतुश्चत्वारिंशत्सहस्राधिका लक्षलोकास्तेन सार्द्धम् आसन्।
2अनन्तरं बहुतोयानां रव इव गुरुतरस्तनितस्य च रव इव एको रवः स्वर्गात् मयाश्रावि। मया श्रुतः स रवो वीणावादकानां वीणावादनस्य सदृशः।
3सिंहसनस्यान्तिके प्राणिचतुष्टयस्य प्राचीनवर्गस्य चान्तिके ऽपि ते नवीनमेकं गीतम् अगायन् किन्तु धरणीतः परिक्रीतान् तान् चतुश्चत्वारिंशत्यहस्राधिकलक्षलोकान् विना नापरेण केनापि तद् गीतं शिक्षितुं शक्यते।
4इमे योषितां सङ्गेन न कलङ्किता यतस्ते ऽमैथुना मेषशावको यत् किमपि स्थानं गच्छेत् तत्सर्व्वस्मिन् स्थाने तम् अनुगच्छन्ति यतस्ते मनुष्याणां मध्यतः प्रथमफलानीवेश्वरस्य मेषशावकस्य च कृते परिक्रीताः।
5तेषां वदनेषु चानृतं किमपि न विद्यते यतस्ते निर्द्दोषा ईश्वरसिंहासनस्यान्तिके तिष्ठन्ति।
6अनन्तरम् आकाशमध्येनोड्डीयमानो ऽपर एको दूतो मया दृष्टः सो ऽनन्तकालीयं सुसंवादं धारयति स च सुसंवादः सर्व्वजातीयान् सर्व्ववंशीयान् सर्व्वभाषावादिनः सर्व्वदेशीयांश्च पृथिवीनिवासिनः प्रति तेन घोषितव्यः।
7स उच्चैःस्वरेणेदं गदति यूयमीश्वराद् बिभीत तस्य स्तवं कुरुत च यतस्तदीयविचारस्य दण्ड उपातिष्ठत् तस्माद् आकाशमण्डलस्य पृथिव्याः समुद्रस्य तोयप्रस्रवणानाञ्च स्रष्टा युष्माभिः प्रणम्यतां।
8तत्पश्चाद् द्वितीय एको दूत उपस्थायावदत् पतिता पतिता सा महाबाबिल् या सर्व्वजातीयान् स्वकीयं व्यभिचाररूपं क्रोधमदम् अपाययत्।
9तत्पश्चाद् तृतीयो दूत उपस्थायोच्चैरवदत्, यः कश्चित तं शशुं तस्य प्रतिमाञ्च प्रणमति स्वभाले स्वकरे वा कलङ्कं गृह्लाति च
10सो ऽपीश्वरस्य क्रोधपात्रे स्थितम् अमिश्रितं मदत् अर्थत ईश्वरस्य क्रोधमदं पास्यति पवित्रदूतानां मेषशावकस्य च साक्षाद् वह्निगन्धकयो र्यातनां लप्स्यते च।
11तेषां यातनाया धूमो ऽनन्तकालं यावद् उद्गमिष्यति ये च पशुं तस्य प्रतिमाञ्च पूजयन्ति तस्य नाम्नो ऽङ्कं वा गृह्लन्ति ते दिवानिशं कञ्चन विरामं न प्राप्स्यन्ति।
12ये मानवा ईश्वरस्याज्ञा यीशौ विश्वासञ्च पालयन्ति तेषां पवित्रलोकानां सहिष्णुतयात्र प्रकाशितव्यं।
13अपरं स्वर्गात् मया सह सम्भाषमाण एको रवो मयाश्रावि तेनोक्तं त्वं लिख, इदानीमारभ्य ये प्रभौ म्रियन्ते ते मृता धन्या इति; आत्मा भाषते सत्यं स्वश्रमेभ्यस्तै र्विरामः प्राप्तव्यः तेषां कर्म्माणि च तान् अनुगच्छन्ति।
14तदनन्तरं निरीक्षमाणेन मया श्वेतवर्ण एको मेघो दृष्टस्तन्मेघारूढो जनो मानवपुत्राकृतिरस्ति तस्य शिरसि सुवर्णकिरीटं करे च तीक्ष्णं दात्रं तिष्ठति।
15ततः परम् अन्य एको दूतो मन्दिरात् निर्गत्योच्चैःस्वरेण तं मेघारूढं सम्भाष्यावदत् त्वया दात्रं प्रसार्य्य शस्यच्छेदनं क्रियतां शस्यच्छेदनस्य समय उपस्थितो यतो मेदिन्याः शस्यानि परिपक्कानि।
16ततस्तेन मेघारूढेन पृथिव्यां दात्रं प्रसार्य्य पृथिव्याः शस्यच्छेदनं कृतं।
17अनन्तरम् अपर एको दूतः स्वर्गस्थमन्दिरात् निर्गतः सो ऽपि तीक्ष्णं दात्रं धारयति।
18अपरम् अन्य एको दूतो वेदितो निर्गतः स वह्नेरधिपतिः स उच्चैःस्वरेण तं तीक्ष्णदात्रधारिणं सम्भाष्यावदत् त्वया स्वं तीक्ष्णं दात्रं प्रसार्य्य मेदिन्या द्राक्षागुच्छच्छेदनं क्रियतां यतस्तत्फलानि परिणतानि।
19ततः स दूतः पृथिव्यां स्वदात्रं प्रसार्य्य पृथिव्या द्राक्षाफलच्छेदनम् अकरोत् तत्फलानि चेश्वरस्य क्रोधस्वरूपस्य महाकुण्डस्य मध्यं निरक्षिपत्।
20तत्कुण्डस्थफलानि च बहि र्मर्द्दितानि ततः कुण्डमध्यात् निर्गतं रक्तं क्रोशशतपर्य्यन्तम् अश्वानां खलीनान् यावद् व्याप्नोत्।

Highlight

Copy

Compare

Share

None

Want to have your highlights saved across all your devices? Sign up or sign in