प्रकाशितं 12:14-16
प्रकाशितं 12:14-16 SAN-DN
ततः सा योषित् यत् स्वकीयं प्रान्तरस्थाश्रमं प्रत्युत्पतितुं शक्नुयात् तदर्थं महाकुररस्य पक्षद्वयं तस्वै दत्तं, सा तु तत्र नागतो दूरे कालैकं कालद्वयं कालार्द्धञ्च यावत् पाल्यते। किञ्च स नागस्तां योषितं स्रोतसा प्लावयितुं स्वमुखात् नदीवत् तोयानि तस्याः पश्चात् प्राक्षिपत्। किन्तु मेदिनी योषितम् उपकुर्व्वती निजवदनं व्यादाय नागमुखाद् उद्गीर्णां नदीम् अपिवत्।





