२ योहनः 1
1
1हे अभिरुचिते कुरिये, त्वां तव पुत्रांश्च प्रति प्राचीनोऽहं पत्रं लिखामि।
2सत्यमताद् युष्मासु मम प्रेमास्ति केवलं मम नहि किन्तु सत्यमतज्ञानां सर्व्वेषामेव। यतः सत्यमतम् अस्मासु तिष्ठत्यनन्तकालं यावच्चास्मासु स्थास्यति।
3पितुरीश्वरात् तत्पितुः पुत्रात् प्रभो र्यीशुख्रीष्टाच्च प्राप्यो ऽनुग्रहः कृपा शान्तिश्च सत्यताप्रेमभ्यां सार्द्धं युष्मान् अधितिष्ठतु।
4वयं पितृतो याम् आज्ञां प्राप्तवन्तस्तदनुसारेण तव केचिद् आत्मजाः सत्यमतम् आचरन्त्येतस्य प्रमाणं प्राप्याहं भृशम् आनन्दितवान्।
5साम्प्रतञ्च हे कुरिये, नवीनां काञ्चिद् आज्ञां न लिखन्नहम् आदितो लब्धाम् आज्ञां लिखन् त्वाम् इदं विनये यद् अस्माभिः परस्परं प्रेम कर्त्तव्यं।
6अपरं प्रेमैतेन प्रकाशते यद् वयं तस्याज्ञा आचरेम। आदितो युष्माभि र्या श्रुता सेयम् आज्ञा सा च युष्माभिराचरितव्या।
7यतो बहवः प्रवञ्चका जगत् प्रविश्य यीशुख्रीष्टो नरावतारो भूत्वागत एतत् नाङ्गीकुर्व्वन्ति स एव प्रवञ्चकः ख्रीष्टारिश्चास्ति।
8अस्माकं श्रमो यत् पण्डश्रमो न भवेत् किन्तु सम्पूर्णं वेतनमस्माभि र्लभ्येत तदर्थं स्वानधि सावधाना भवतः।
9यः कश्चिद् विपथगामी भूत्वा ख्रीष्टस्य शिक्षायां न तिष्ठति स ईश्वरं न धारयति ख्रीष्टस्य शिज्ञायां यस्तिष्ठति स पितरं पुत्रञ्च धारयति।
10यः कश्चिद् युष्मत्सन्निधिमागच्छन् शिक्षामेनां नानयति स युष्माभिः स्ववेश्मनि न गृह्यतां तव मङ्गलं भूयादिति वागपि तस्मै न कथ्यतां।
11यतस्तव मङ्गलं भूयादिति वाचं यः कश्चित् तस्मै कथयति स तस्य दुष्कर्म्मणाम् अंशी भवति।
12युष्मान् प्रति मया बहूनि लेखितव्यानि किन्तु पत्रमसीभ्यां तत् कर्त्तुं नेच्छामि, यतो ऽस्माकम् आनन्दो यथा सम्पूर्णो भविष्यति तथा युष्मत्समीपमुपस्थायाहं सम्मुखीभूय युष्माभिः सम्भाषिष्य इति प्रत्याशा ममास्ते।
13तवाभिरुचिताया भगिन्या बालकास्त्वां नमस्कारं ज्ञापयन्ति। आमेन्।
Currently Selected:
२ योहनः 1: SAN-DN
Highlight
Copy
Compare
Share
Want to have your highlights saved across all your devices? Sign up or sign in
© SanskritBible.in । Licensed under Creative Commons Attribution-ShareAlike 4.0 International License.