२ करिन्थिनः 8
8
1हे भ्रातरः, माकिदनियादेशस्थासु समितिषु प्रकाशितो य ईश्वरस्यानुग्रहस्तमहं युष्मान् ज्ञापयामि।
2वस्तुतो बहुक्लेशपरीक्षासमये तेषां महानन्दोऽतीवदीनता च वदान्यतायाः प्रचुरफलम् अफलयतां।
3ते स्वेच्छया यथाशक्ति किञ्चातिशक्ति दान उद्युक्ता अभवन् इति मया प्रमाणीक्रियते।
4वयञ्च यत् पवित्रलोकेभ्यस्तेषां दानम् उपकारार्थकम् अंशनञ्च गृह्लामस्तद् बहुनुनयेनास्मान् प्रार्थितवन्तः।
5वयं यादृक् प्रत्यै़क्षामहि तादृग् अकृत्वा तेऽग्रे प्रभवे ततः परम् ईश्वरस्येच्छयास्मभ्यमपि स्वान् न्यवेदयन्।
6अतो हेतोस्त्वं यथारब्धवान् तथैव करिन्थिनां मध्येऽपि तद् दानग्रहणं साधयेति युष्मान् अधि वयं तीतं प्रार्थयामहि।
7अतो विश्वासो वाक्पटुता ज्ञानं सर्व्वोत्साहो ऽस्मासु प्रेम चैतै र्गुणै र्यूयं यथापरान् अतिशेध्वे तथैवैतेन गुणेनाप्यतिशेध्वं।
8एतद् अहम् आज्ञया कथयामीति नहि किन्त्वन्येषाम् उत्साहकारणाद् युष्माकमपि प्रेम्नः सारल्यं परीक्षितुमिच्छता मयैतत् कथ्यते।
9यूयञ्चास्मत्प्रभो र्यीशुख्रीष्टस्यानुग्रहं जानीथ यतस्तस्य निर्धनत्वेन यूयं यद् धनिनो भवथ तदर्थं स धनी सन्नपि युष्मत्कृते निर्धनोऽभवत्।
10एतस्मिन् अहं युष्मान् स्वविचारं ज्ञापयामि। गतं संवत्सरम् आरभ्य यूयं केवलं कर्म्म कर्त्तं तन्नहि किन्त्विच्छुकतां प्रकाशयितुमप्युपाक्राभ्यध्वं ततो हेतो र्युष्मत्कृते मम मन्त्रणा भद्रा।
11अतो ऽधुना तत्कर्म्मसाधनं युष्माभिः क्रियतां तेन यद्वद् इच्छुकतायाम् उत्साहस्तद्वद् एकैकस्य सम्पदनुसारेण कर्म्मसाधनम् अपि जनिष्यते।
12यस्मिन् इच्छुकता विद्यते तेन यन्न धार्य्यते तस्मात् सोऽनुगृह्यत इति नहि किन्तु यद् धार्य्यते तस्मादेव।
13यत इतरेषां विरामेण युष्माकञ्च क्लेशेन भवितव्यं तन्नहि किन्तु समतयैव।
14वर्त्तमानसमये युष्माकं धनाधिक्येन तेषां धनन्यूनता पूरयितव्या तस्मात् तेषामप्याधिक्येन युष्माकं न्यूनता पूरयिष्यते तेन समता जनिष्यते।
15तदेव शास्त्रेऽपि लिखितम् आस्ते यथा, येनाधिकं संगृहीतं तस्याधिकं नाभवत् येन चाल्पं संगृहीतं तस्याल्पं नाभवत्।
16युष्माकं हिताय तीतस्य मनसि य ईश्वर इमम् उद्योगं जनितवान् स धन्यो भवतु।
17तीतोऽस्माकं प्रार्थनां गृहीतवान् किञ्च स्वयम् उद्युक्तः सन् स्वेच्छया युष्मत्समीपं गतवान्।
18तेन सह योऽपर एको भ्रातास्माभिः प्रेषितः सुसंवादात् तस्य सुख्यात्या सर्व्वाः समितयो व्याप्ताः।
19प्रभो र्गौरवाय युष्माकम् इच्छुकतायै च स समितिभिरेतस्यै दानसेवायै अस्माकं सङ्गित्वे न्ययोज्यत।
20यतो या महोपायनसेवास्माभि र्विधीयते तामधि वयं यत् केनापि न निन्द्यामहे तदर्थं यतामहे।
21यतः केवलं प्रभोः साक्षात् तन्नहि किन्तु मानवानामपि साक्षात् सदाचारं कर्त्तुम् आलोचामहे।
22ताभ्यां सहापर एको यो भ्रातास्माभिः प्रेषितः सोऽस्माभि र्बहुविषयेषु बहवारान् परीक्षित उद्योगीव प्रकाशितश्च किन्त्वधुना युष्मासु दृढविश्वासात् तस्योत्साहो बहु ववृधे।
23यदि कश्चित् तीतस्य तत्त्वं जिज्ञासते तर्हि स मम सहभागी युष्मन्मध्ये सहकारी च, अपरयो र्भ्रात्रोस्तत्त्वं वा यदि जिज्ञासते तर्हि तौ समितीनां दूतौ ख्रीष्टस्य प्रतिबिम्बौ चेति तेन ज्ञायतां।
24अतो हेतोः समितीनां समक्षं युष्मत्प्रेम्नोऽस्माकं श्लाघायाश्च प्रामाण्यं तान् प्रति युष्माभिः प्रकाशयितव्यं।
Currently Selected:
२ करिन्थिनः 8: SAN-DN
Highlight
Copy
Compare
Share
Want to have your highlights saved across all your devices? Sign up or sign in
© SanskritBible.in । Licensed under Creative Commons Attribution-ShareAlike 4.0 International License.