YouVersion Logo
Search Icon

१ थिषलनीकिनः 4

4
1हे भ्रातरः, युष्माभिः कीदृग् आचरितव्यं ईश्वराय रोचितव्यञ्च तदध्यस्मत्तो या शिक्षा लब्धा तदनुसारात् पुनरतिशयं यत्नः क्रियतामिति वयं प्रभुयीशुना युष्मान् विनीयादिशामः।
2यतो वयं प्रभुयीशुना कीदृशीराज्ञा युष्मासु समर्पितवन्तस्तद् यूयं जानीथ।
3ईश्वरस्यायम् अभिलाषो यद् युष्माकं पवित्रता भवेत्, यूयं व्यभिचाराद् दूरे तिष्ठत।
4युष्माकम् एकैको जनः स्वकीयं प्राणाधारं पवित्रं मान्यञ्च रक्षतु,
5ये च भिन्नजातीया लोका ईश्वरं न जानन्ति त इव तत् कामाभिलाषस्याधीनं न करोतु।
6एतस्मिन् विषये कोऽप्यत्याचारी भूत्वा स्वभ्रातरं न वञ्चयतु यतोऽस्माभिः पूर्व्वं यथोक्तं प्रमाणीकृतञ्च तथैव प्रभुरेतादृशानां कर्म्मणां समुचितं फलं दास्यति।
7यस्माद् ईश्वरोऽस्मान् अशुचितायै नाहूतवान् किन्तु पवित्रत्वायैवाहूतवान्।
8अतो हेतो र्यः कश्चिद् वाक्यमेतन्न गृह्लाति स मनुष्यम् अवजानातीति नहि येन स्वकीयात्मा युष्मदन्तरे समर्पितस्तम् ईश्वरम् एवावजानाति।
9भ्रातृषु प्रेमकरणमधि युष्मान् प्रति मम लिखनं निष्प्रयोजनं यतो यूयं परस्परं प्रेमकरणायेश्वरशिक्षिता लोका आध्वे।
10कृत्स्ने माकिदनियादेशे च यावन्तो भ्रातरः सन्ति तान् सर्व्वान् प्रति युष्माभिस्तत् प्रेम प्रकाश्यते तथापि हे भ्रातरः, वयं युष्मान् विनयामहे यूयं पुन र्बहुतरं प्रेम प्रकाशयत।
11अपरं ये बहिःस्थितास्तेषां दृष्टिगोचरे युष्माकम् आचरणं यत् मनोरम्यं भवेत् कस्यापि वस्तुनश्चाभावो युष्माकं यन्न भवेत्,
12एतदर्थं यूयम् अस्मत्तो यादृशम् आदेशं प्राप्तवन्तस्तादृशं निर्विरोधाचारं कर्त्तुं स्वस्वकर्म्मणि मनांमि निधातुं निजकरैश्च कार्य्यं साधयितुं यतध्वं।
13हे भ्रातरः निराशा अन्ये लोका इव यूयं यन्न शोचेध्वं तदर्थं महानिद्रागतान् लोकानधि युष्माकम् अज्ञानता मया नाभिलष्यते।
14यीशु र्मृतवान् पुनरुथितवांश्चेति यदि वयं विश्वासमस्तर्हि यीशुम् आश्रितान् महानिद्राप्राप्तान् लोकानपीश्वरोऽवश्यं तेन सार्द्धम् आनेष्यति।
15यतोऽहं प्रभो र्वाक्येन युष्मान् इदं ज्ञापयामि; अस्माकं मध्ये ये जनाः प्रभोरागमनं यावत् जीवन्तोऽवशेक्ष्यन्ते ते महानिद्रितानाम् अग्रगामिनोन न भविष्यन्ति;
16यतः प्रभुः सिंहनादेन प्रधानस्वर्गदूतस्योच्चैः शब्देनेश्वरीयतूरीवाद्येन च स्वयं स्वर्गाद् अवरोक्ष्यति तेन ख्रीष्टाश्रिता मृतलोकाः प्रथमम् उत्थास्यान्ति।
17अपरम् अस्माकं मध्ये ये जीवन्तोऽवशेक्ष्यन्ते त आकाशे प्रभोः साक्षात्करणार्थं तैः सार्द्धं मेघवाहनेन हरिष्यन्ते; इत्थञ्च वयं सर्व्वदा प्रभुना सार्द्धं स्थास्यामः।
18अतो यूयम् एताभिः कथाभिः परस्परं सान्त्वयत।

Highlight

Copy

Compare

Share

None

Want to have your highlights saved across all your devices? Sign up or sign in