१ पितरः 4
4
1अस्माकं विनिमयेन ख्रीष्टः शरीरसम्बन्धे दण्डं भुक्तवान् अतो हेतोः शरीरसम्बन्धे यो दण्डं भुक्तवान् स पापात् मुक्त
2इतिभावेन यूयमपि सुसज्जीभूय देहवासस्यावशिष्टं समयं पुनर्मानवानाम् इच्छासाधनार्थं नहि किन्त्वीश्वरस्येच्छासाधनार्थं यापयत।
3आयुषो यः समयो व्यतीतस्तस्मिन् युष्माभि र्यद् देवपूजकानाम् इच्छासाधनं कामकुत्सिताभिलाषमद्यपानरङ्गरसमत्तताघृणार्हदेवपूजाचरणञ्चाकारि तेन बाहुल्यं।
4यूयं तैः सह तस्मिन् सर्व्वनाशपङ्के मज्जितुं न धावथ, इत्यनेनाश्चर्य्यं विज्ञाय ते युष्मान् निन्दन्ति।
5किन्तु यो जीवतां मृतानाञ्च विचारं कर्त्तुम् उद्यतोऽस्ति तस्मै तैरुत्तरं दायिष्यते।
6यतो हेतो र्ये मृतास्तेषां यत् मानवोद्देश्यः शारीरिकविचारः किन्त्वीश्वरोद्देश्यम् आत्मिकजीवनं भवत् तदर्थं तेषामपि सन्निधौ सुसमाचारः प्रकाशितोऽभवत्।
7सर्व्वेषाम् अन्तिमकाल उपस्थितस्तस्माद् यूयं सुबुद्धयः प्रार्थनार्थं जाग्रतश्च भवत।
8विशेषतः परस्परं गाढं प्रेम कुरुत, यतः, पापानामपि बाहुल्यं प्रेम्नैवाच्छादयिष्यते।
9कातरोक्तिं विना परस्परम् आतिथ्यं कृरुत।
10येन यो वरो लब्धस्तेनैव स परम् उपकरोतृ, इत्थं यूयम् ईश्वरस्य बहुविधप्रसादस्योत्तमा भाण्डागाराधिपा भवत।
11यो वाक्यं कथयति स ईश्वरस्य वाक्यमिव कथयतु यश्च परम् उपकरोति स ईश्वरदत्तसामर्थ्यादिवोपकरोतु। सर्व्वविषये यीशुख्रीष्टेनेश्वरस्य गौरवं प्रकाश्यतां तस्यैव गौरवं पराक्रमश्च सर्व्वदा भूयात्। आमेन।
12हे प्रियतमाः, युष्माकं परीक्षार्थं यस्तापो युष्मासु वर्त्तते तम् असम्भवघटितं मत्वा नाश्चर्य्यं जानीत,
13किन्तु ख्रीष्टेन क्लेशानां सहभागित्वाद् आनन्दत तेन तस्य प्रतापप्रकाशेऽप्याननन्देन प्रफुल्ला भविष्यथ।
14यदि ख्रीष्टस्य नामहेतुना युष्माकं निन्दा भवति तर्हि यूयं धन्या यतो गौरवदायक ईश्वरस्यात्मा युष्मास्वधितिष्ठति तेषां मध्ये स निन्द्यते किन्तु युष्मन्मध्ये प्रशंस्यते।
15किन्तु युष्माकं कोऽपि हन्ता वा चैरो वा दुष्कर्म्मकृद् वा पराधिकारचर्च्चक इव दण्डं न भुङ्क्तां।
16यदि च ख्रीष्टीयान इव दण्डं भुङ्क्ते तर्हि स न लज्जमानस्तत्कारणाद् ईश्वरं प्रशंसतु।
17यतो विचारस्यारम्भसमये ईश्वरस्य मन्दिरे युज्यते यदि चास्मत्स्वारभते तर्हीश्वरीयसुसंवादाग्राहिणां शेषदशा का भविष्यति?
18धार्म्मिकेनापि चेत् त्राणम् अतिकृच्छ्रेण गम्यते। तर्ह्यधार्म्मिकपापिभ्याम् आश्रयः कुत्र लप्स्यते।
19अत ईश्वरेच्छातो ये दुःखं भुञ्जते ते सदाचारेण स्वात्मानो विश्वास्यस्रष्टुरीश्वस्य कराभ्यां निदधतां।
Currently Selected:
१ पितरः 4: SAN-DN
Highlight
Copy
Compare
Share
Want to have your highlights saved across all your devices? Sign up or sign in
© SanskritBible.in । Licensed under Creative Commons Attribution-ShareAlike 4.0 International License.