१ योहनः 2
2
1हे प्रियबालकाः, युष्माभि र्यत् पापं न क्रियेत तदर्थं युष्मान् प्रत्येतानि मया लिख्यन्ते। यदि तु केनापि पापं क्रियते तर्हि पितुः समीपे ऽस्माकं एकः सहायो ऽर्थतो धार्म्मिको यीशुः ख्रीष्टो विद्यते।
2स चास्माकं पापानां प्रायश्चित्तं केवलमस्माकं नहि किन्तु लिखिलसंसारस्य पापानां प्रायश्चित्तं।
3वयं तं जानीम इति तदीयाज्ञापालनेनावगच्छामः।
4अहं तं जानामीति वदित्वा यस्तस्याज्ञा न पालयति सो ऽनृतवादी सत्यमतञ्च तस्यान्तरे न विद्यते।
5यः कश्चित् तस्य वाक्यं पालयति तस्मिन् ईश्वरस्य प्रेम सत्यरूपेण सिध्यति वयं तस्मिन् वर्त्तामहे तद् एतेनावगच्छामः।
6अहं तस्मिन् तिष्ठामीति यो गदति तस्येदम् उचितं यत् ख्रीष्टो यादृग् आचरितवान् सो ऽपि तादृग् आचरेत्।
7हे प्रियतमाः, युष्मान् प्रत्यहं नूतनामाज्ञां लिखामीति नहि किन्त्वादितो युष्माभि र्लब्धां पुरातनामाज्ञां लिखामि। आदितो युष्माभि र्यद् वाक्यं श्रुतं सा पुरातनाज्ञा।
8पुनरपि युष्मान् प्रति नूतनाज्ञा मया लिख्यत एतदपि तस्मिन् युष्मासु च सत्यं, यतो ऽन्धकारो व्यत्येति सत्या ज्योतिश्चेदानीं प्रकाशते;
9अहं ज्योतिषि वर्त्त इति गदित्वा यः स्वभ्रातरं द्वेष्टि सो ऽद्यापि तमिस्रे वर्त्तते।
10स्वभ्रातरि यः प्रीयते स एव ज्योतिषि वर्त्तते विघ्नजनकं किमपि तस्मिन् न विद्यते।
11किन्तु स्वभ्रातरं यो द्वेष्टि स तिमिरे वर्त्तते तिमिरे चरति च तिमिरेण च तस्य नयने ऽन्धीक्रियेते तस्मात् क्क यामीति स ज्ञातुं न शक्नोति।
12हे शिशवः, यूयं तस्य नाम्ना पापक्षमां प्राप्तवन्तस्तस्माद् अहं युष्मान् प्रति लिखामि।
13हे पितरः, य आदितो वर्त्तमानस्तं यूयं जानीथ तस्माद् युष्मान् प्रति लिखामि। हे युवानः यूयं पापत्मानं जितवन्तस्तस्माद् युष्मान् प्रति लिखामि। हे बालकाः, यूयं पितरं जानीथ तस्मादहं युष्मान् प्रति लिखितवान्।
14हे पितरः, आदितो यो वर्त्तमानस्तं यूयं जानीथ तस्माद् युष्मान् प्रति लिखितवान्। हे युवानः, यूयं बलवन्त आध्वे, ईश्वरस्य वाक्यञ्च युष्मदन्तरे वर्तते पापात्मा च युष्माभिः पराजिग्ये तस्माद् युष्मान् प्रति लिखितवान्।
15यूयं संसारे संसारस्थविषयेषु च मा प्रीयध्वं यः संसारे प्रीयते तस्यान्तरे पितुः प्रेम न तिष्ठति।
16यतः संसारे यद्यत् स्थितम् अर्थतः शारीरिकभावस्याभिलाषो दर्शनेन्द्रियस्याभिलाषो जीवनस्य गर्व्वश्च सर्व्वमेतत् पितृतो न जायते किन्तु संसारदेव।
17संसारस्तदीयाभिलाषश्च व्यत्येति किन्तु य ईश्वरस्येष्टं करोति सो ऽनन्तकालं यावत् तिष्ठति।
18हे बालकाः, शेषकालोऽयं, अपरं ख्रीष्टारिणोपस्थाव्यमिति युष्माभि र्यथा श्रुतं तथा बहवः ख्रीष्टारय उपस्थितास्तस्मादयं शेषकालोऽस्तीति वयं जानीमः।
19ते ऽस्मन्मध्यान् निर्गतवन्तः किन्त्वस्मदीया नासन् यद्यस्मदीया अभविष्यन् तर्ह्यस्मत्सङ्गे ऽस्थास्यन्, किन्तु सर्व्वे ऽस्मदीया न सन्त्येतस्य प्रकाश आवश्यक आसीत्।
20यः पवित्रस्तस्माद् यूयम् अभिषेकं प्राप्तवन्तस्तेन सर्व्वाणि जानीथ।
21यूयं सत्यमतं न जानीथ तत्कारणाद् अहं युष्मान् प्रति लिखितवान् तन्नहि किन्तु यूयं तत् जानीथ सत्यमताच्च किमप्यनृतवाक्यं नोत्पद्यते तत्कारणादेव।
22यीशुरभिषिक्तस्त्रातेति यो नाङ्गीकरोति तं विना को ऽपरो ऽनृतवादी भवेत्? स एव ख्रीष्टारि र्यः पितरं पुत्रञ्च नाङ्गीकरोति।
23यः कश्चित् पुत्रं नाङ्गीकरोति स पितरमपि न धारयति यश्च पुत्रमङ्गीकरोति स पितरमपि धारयति।
24आदितो युष्माभि र्यत् श्रुतं तद् युष्मासु तिष्ठतु, आदितः श्रुतं वाक्यं यदि युष्मासु तिष्ठति, तर्हि यूयमपि पुत्रे पितरि च स्थास्यथ।
25स च प्रतिज्ञयास्मभ्यं यत् प्रतिज्ञातवान् तद् अनन्तजीवनं।
26ये जना युष्मान् भ्रामयन्ति तानध्यहम् इदं लिखितवान्।
27अपरं यूयं तस्माद् यम् अभिषेकं प्राप्तवन्तः स युष्मासु तिष्ठति ततः कोऽपि यद् युष्मान् शिक्षयेत् तद् अनावश्यकं, स चाभिषेको युष्मान् सर्व्वाणि शिक्षयति सत्यश्च भवति न चातथ्यः, अतः स युष्मान् यद्वद् अशिक्षयत् तद्वत् तत्र स्थास्यथ।
28अतएव हे प्रियबालका यूयं तत्र तिष्ठत, तथा सति स यदा प्रकाशिष्यते तदा वयं प्रतिभान्विता भविष्यामः, तस्यागमनसमये च तस्य साक्षान्न त्रपिष्यामहे।
29स धार्म्मिको ऽस्तीति यदि यूयं जानीथ तर्हि यः कश्चिद् धर्म्माचारं करोति स तस्मात् जात इत्यपि जानीत।
Currently Selected:
१ योहनः 2: SAN-DN
Highlight
Copy
Compare
Share
Want to have your highlights saved across all your devices? Sign up or sign in
© SanskritBible.in । Licensed under Creative Commons Attribution-ShareAlike 4.0 International License.