YouVersion Logo
Search Icon

१ करिन्थिनः 9

9
1अहं किम् एकः प्रेरितो नास्मि? किमहं स्वतन्त्रो नास्मि? अस्माकं प्रभु र्यीशुः ख्रीष्टः किं मया नादर्शि? यूयमपि किं प्रभुना मदीयश्रमफलस्वरूपा न भवथ?
2अन्यलोकानां कृते यद्यप्यहं प्रेरितो न भवेयं तथाच युष्मत्कृते प्रेरितोऽस्मि यतः प्रभुना मम प्रेरितत्वपदस्य मुद्रास्वरूपा यूयमेवाध्वे।
3ये लोका मयि दोषमारोपयन्ति तान् प्रति मम प्रत्युत्तरमेतत्।
4भोजनपानयोः किमस्माकं क्षमता नास्ति?
5अन्ये प्रेरिताः प्रभो र्भ्रातरौ कैफाश्च यत् कुर्व्वन्ति तद्वत् काञ्चित् धर्म्मभगिनीं व्यूह्य तया सार्द्धं पर्य्यटितुं वयं किं न शक्नुमः?
6सांसारिकश्रमस्य परित्यागात् किं केवलमहं बर्णब्बाश्च निवारितौ?
7निजधनव्ययेन कः संग्रामं करोति? को वा द्राक्षाक्षेत्रं कृत्वा तत्फलानि न भुङ्क्ते? को वा पशुव्रजं पालयन् तत्पयो न पिवति?
8किमहं केवलां मानुषिकां वाचं वदामि? व्यवस्थायां किमेतादृशं वचनं न विद्यते?
9मूसाव्यवस्थाग्रन्थे लिखितमास्ते, त्वं शस्यमर्द्दकवृषस्यास्यं न भंत्स्यसीति। ईश्वरेण बलीवर्द्दानामेव चिन्ता किं क्रियते?
10किं वा सर्व्वथास्माकं कृते तद्वचनं तेनोक्तं? अस्माकमेव कृते तल्लिखितं। यः क्षेत्रं कर्षति तेन प्रत्याशायुक्तेन कर्ष्टव्यं, यश्च शस्यानि मर्द्दयति तेन लाभप्रत्याशायुक्तेन मर्द्दितव्यं।
11युष्मत्कृतेऽस्माभिः पारत्रिकाणि बीजानि रोपितानि, अतो युष्माकमैहिकफलानां वयम् अंशिनो भविष्यामः किमेतत् महत् कर्म्म?
12युष्मासु योऽधिकारस्तस्य भागिनो यद्यन्ये भवेयुस्तर्ह्यस्माभिस्ततोऽधिकं किं तस्य भागिभि र्न भवितव्यं? अधिकन्तु वयं तेनाधिकारेण न व्यवहृतवन्तः किन्तु ख्रीष्टीयसुसंवादस्य कोऽपि व्याघातोऽस्माभिर्यन्न जायेत तदर्थं सर्व्वं सहामहे।
13अपरं ये पवित्रवस्तूनां परिचर्य्यां कुर्व्वन्ति ते पवित्रवस्तुतो भक्ष्याणि लभन्ते, ये च वेद्याः परिचर्य्यां कुर्व्वन्ति ते वेदिस्थवस्तूनाम् अंशिनो भवन्त्येतद् यूयं किं न विद?
14तद्वद् ये सुसंवादं घोषयन्ति तैः सुसंवादेन जीवितव्यमिति प्रभुनादिष्टं।
15अहमेतेषां सर्व्वेषां किमपि नाश्रितवान् मां प्रति तदनुसारात् आचरितव्यमित्याशयेनापि पत्रमिदं मया न लिख्यते यतः केनापि जनेन मम यशसो मुधाकरणात् मम मरणं वरं।
16सुसंवादघेषणात् मम यशो न जायते यतस्तद्घोषणं ममावश्यकं यद्यहं सुसंवादं न घोषयेयं तर्हि मां धिक्।
17इच्छुकेन तत् कुर्व्वता मया फलं लप्स्यते किन्त्वनिच्छुकेऽपि मयि तत्कर्म्मणो भारोऽर्पितोऽस्ति।
18एतेन मया लभ्यं फलं किं? सुसंवादेन मम योऽधिकार आस्ते तं यदभद्रभावेन नाचरेयं तदर्थं सुसंवादघोषणसमये तस्य ख्रीष्टीयसुसंवादस्य निर्व्ययीकरणमेव मम फलं।
19सर्व्वेषाम् अनायत्तोऽहं यद् भूरिशो लोकान् प्रतिपद्ये तदर्थं सर्व्वेषां दासत्वमङ्गीकृतवान्।
20यिहूदीयान् यत् प्रतिपद्ये तदर्थं यिहूदीयानां कृते यिहूदीयइवाभवं। ये च व्यवस्थायत्तास्तान् यत् प्रतिपद्ये तदर्थं व्यवस्थानायत्तो योऽहं सोऽहं व्यवस्थायत्तानां कृते व्यवस्थायत्तइवाभवं।
21ये चालब्धव्यवस्थास्तान् यत् प्रतिपद्ये तदर्थम् ईश्वरस्य साक्षाद् अलब्धव्यवस्थो न भूत्वा ख्रीष्टेन लब्धव्यवस्थो योऽहं सोऽहम् अलब्धव्यवस्थानां कृतेऽलब्धव्यवस्थ इवाभवं।
22दुर्ब्बलान् यत् प्रतिपद्ये तदर्थमहं दुर्ब्बलानां कृते दुर्ब्बलइवाभवं। इत्थं केनापि प्रकारेण कतिपया लोका यन्मया परित्राणं प्राप्नुयुस्तदर्थं यो यादृश आसीत् तस्य कृते ऽहं तादृशइवाभवं।
23इदृश आचारः सुसंवादार्थं मया क्रियते यतोऽहं तस्य फलानां सहभागी भवितुमिच्छामि।
24पण्यलाभार्थं ये धावन्ति धावतां तेषां सर्व्वेषां केवल एकः पण्यं लभते युष्माभिः किमेतन्न ज्ञायते? अतो यूयं यथा पण्यं लप्स्यध्वे तथैव धावत।
25मल्ला अपि सर्व्वभोगे परिमितभोगिनो भवन्ति ते तु म्लानां स्रजं लिप्सन्ते किन्तु वयम् अम्लानां लिप्सामहे।
26तस्माद् अहमपि धावामि किन्तु लक्ष्यमनुद्दिश्य धावामि तन्नहि। अहं मल्लइव युध्यामि च किन्तु छायामाघातयन्निव युध्यामि तन्नहि।
27इतरान् प्रति सुसंवादं घोषयित्वाहं यत् स्वयमग्राह्यो न भवामि तदर्थं देहम् आहन्मि वशीकुर्व्वे च।

Highlight

Copy

Compare

Share

None

Want to have your highlights saved across all your devices? Sign up or sign in