१ करिन्थिनः 11
11
1हे भ्रातरः, यूयं सर्व्वस्मिन् कार्य्ये मां स्मरथ मया च यादृगुपदिष्टास्तादृगाचरथैतत्कारणात् मया प्रशंसनीया आध्बे।
2तथापि ममैषा वाञ्छा यद् यूयमिदम् अवगता भवथ,
3एकैकस्य पुरुषस्योत्तमाङ्गस्वरूपः ख्रीष्टः, योषितश्चोत्तमाङ्गस्वरूपः पुमान्, ख्रीष्टस्य चोत्तमाङ्गस्वरूप ईश्वरः।
4अपरम् आच्छादितोत्तमाङ्गेन येन पुंसा प्रार्थना क्रियत ईश्वरीयवाणी कथ्यते वा तेन स्वीयोत्तमाङ्गम् अवज्ञायते।
5अनाच्छादितोत्तमाङ्गया यया योषिता च प्रार्थना क्रियत ईश्वरीयवाणी कथ्यते वा तयापि स्वीयोत्तमाङ्गम् अवज्ञायते यतः सा मुण्डितशिरःसदृशा।
6अनाच्छादितमस्तका या योषित् तस्याः शिरः मुण्डनीयमेव किन्तु योषितः केशच्छेदनं शिरोमुण्डनं वा यदि लज्जाजनकं भवेत् तर्हि तया स्वशिर आच्छाद्यतां।
7पुमान् ईश्वरस्य प्रतिमूर्त्तिः प्रतितेजःस्वरूपश्च तस्मात् तेन शिरो नाच्छादनीयं किन्तु सीमन्तिनी पुंसः प्रतिबिम्बस्वरूपा।
8यतो योषातः पुमान् नोदपादि किन्तु पुंसो योषिद् उदपादि।
9अधिकन्तु योषितः कृते पुंसः सृष्टि र्न बभूव किन्तु पुंसः कृते योषितः सृष्टि र्बभूव।
10इति हेतो र्दूतानाम् आदराद् योषिता शिरस्यधीनतासूचकम् आवरणं धर्त्तव्यं।
11तथापि प्रभो र्विधिना पुमांसं विना योषिन्न जायते योषितञ्च विना पुमान् न जायते।
12यतो यथा पुंसो योषिद् उदपादि तथा योषितः पुमान् जायते, सर्व्ववस्तूनि चेश्वराद् उत्पद्यन्ते।
13युष्माभिरेवैतद् विविच्यतां, अनावृतया योषिता प्रार्थनं किं सुदृश्यं भवेत्?
14पुरुषस्य दीर्घकेशत्वं तस्य लज्जाजनकं, किन्तु योषितो दीर्घकेशत्वं तस्या गौरवजनकं
15यत आच्छादनाय तस्यै केशा दत्ता इति किं युष्माभिः स्वभावतो न शिक्ष्यते?
16अत्र यदि कश्चिद् विवदितुम् इच्छेत् तर्ह्यस्माकम् ईश्वरीयसमितीनाञ्च तादृशी रीति र्न विद्यते।
17युष्माभि र्न भद्राय किन्तु कुत्सिताय समागम्यते तस्माद् एतानि भाषमाणेन मया यूयं न प्रशंसनीयाः।
18प्रथमतः समितौ समागतानां युष्माकं मध्ये भेदाः सन्तीति वार्त्ता मया श्रूयते तन्मध्ये किञ्चित् सत्यं मन्यते च।
19यतो हेतो र्युष्मन्मध्ये ये परीक्षितास्ते यत् प्रकाश्यन्ते तदर्थं भेदै र्भवितव्यमेव।
20एकत्र समागतै र्युष्माभिः प्रभावं भेाज्यं भुज्यत इति नहि;
21यतो भोजनकाले युष्माकमेकैकेन स्वकीयं भक्ष्यं तूर्णं ग्रस्यते तस्माद् एको जनो बुभुक्षितस्तिष्ठति, अन्यश्च परितृप्तो भवति।
22भोजनपानार्थं युष्माकं किं वेश्मानि न सन्ति? युष्माभि र्वा किम् ईश्वरस्य समितिं तुच्छीकृत्य दीना लोका अवज्ञायन्ते? इत्यनेन मया किं वक्तव्यं? यूयं किं मया प्रशंसनीयाः? एतस्मिन् यूयं न प्रशंसनीयाः।
23प्रभुतो य उपदेशो मया लब्धो युष्मासु समर्पितश्च स एषः।
24परकरसमर्पणक्षपायां प्रभु र्यीशुः पूपमादायेश्वरं धन्यं व्याहृत्य तं भङ्क्त्वा भाषितवान् युष्माभिरेतद् गृह्यतां भुज्यताञ्च तद् युष्मत्कृते भग्नं मम शरीरं; मम स्मरणार्थं युष्माभिरेतत् क्रियतां।
25पुनश्च भेजनात् परं तथैव कंसम् आदाय तेनोक्तं कंसोऽयं मम शोणितेन स्थापितो नूतननियमः; यतिवारं युष्माभिरेतत् पीयते ततिवारं मम स्मरणार्थं पीयतां।
26यतिवारं युष्माभिरेष पूपो भुज्यते भाजनेनानेन पीयते च ततिवारं प्रभोरागमनं यावत् तस्य मृत्युः प्रकाश्यते।
27अपरञ्च यः कश्चिद् अयोग्यत्वेन प्रभोरिमं पूपम् अश्नाति तस्यानेन भाजनेन पिवति च स प्रभोः कायरुधिरयो र्दण्डदायी भविष्यति।
28तस्मात् मानवेनाग्र आत्मान परीक्ष्य पश्चाद् एष पूपो भुज्यतां कंसेनानेन च पीयतां।
29येन चानर्हत्वेन भुज्यते पीयते च प्रभोः कायम् अविमृशता तेन दण्डप्राप्तये भुज्यते पीयते च।
30एतत्कारणाद् युष्माकं भूरिशो लोका दुर्ब्बला रोगिणश्च सन्ति बहवश्च महानिद्रां गताः।
31अस्माभि र्यद्यात्मविचारोऽकारिष्यत तर्हि दण्डो नालप्स्यत;
32किन्तु यदास्माकं विचारो भवति तदा वयं जगतो जनैः समं यद् दण्डं न लभामहे तदर्थं प्रभुना शास्तिं भुंज्महे।
33हे मम भ्रातरः, भोजनार्थं मिलितानां युष्माकम् एकेनेतरोऽनुगृह्यतां।
34यश्च बुभुक्षितः स स्वगृहे भुङ्क्तां। दण्डप्राप्तये युष्माभि र्न समागम्यतां। एतद्भिन्नं यद् आदेष्टव्यं तद् युष्मत्समीपागमनकाले मयादेक्ष्यते।
Currently Selected:
१ करिन्थिनः 11: SAN-DN
Highlight
Copy
Compare
Share
Want to have your highlights saved across all your devices? Sign up or sign in
© SanskritBible.in । Licensed under Creative Commons Attribution-ShareAlike 4.0 International License.