1
प्रकाशितं 3:20
सत्यवेदः। Sanskrit NT in Devanagari
SAN-DN
पश्याहं द्वारि तिष्ठन् तद् आहन्मि यदि कश्चित् मम रवं श्रुत्वा द्वारं मोचयति तर्ह्यहं तस्य सन्निधिं प्रविश्य तेन सार्द्धं भोक्ष्ये सो ऽपि मया सार्द्धं भोक्ष्यते।
Compare
Explore प्रकाशितं 3:20
2
प्रकाशितं 3:15-16
तव क्रिया मम गोचराः त्वं शीतो नासि तप्तो ऽपि नासीति जानामि। तव शीतत्वं तप्तत्वं वा वरं भवेत्, शीतो न भूत्वा तप्तो ऽपि न भूत्वा त्वमेवम्भूतः कदूष्णो ऽसि तत्कारणाद् अहं स्वमुखात् त्वाम् उद्वमिष्यामि।
Explore प्रकाशितं 3:15-16
3
प्रकाशितं 3:19
येष्वहं प्रीये तान् सर्व्वान् भर्त्सयामि शास्मि च, अतस्त्वम् उद्यमं विधाय मनः परिवर्त्तय।
Explore प्रकाशितं 3:19
4
प्रकाशितं 3:8
तव क्रिया मम गोचराः पश्य तव समीपे ऽहं मुक्तं द्वारं स्थापितवान् तत् केनापि रोद्धुं न शक्यते यतस्तवाल्पं बलमास्ते तथापि त्वं मम वाक्यं पालितवान् मम नाम्नो ऽस्वीकारं न कृतवांश्च।
Explore प्रकाशितं 3:8
5
प्रकाशितं 3:21
अपरमहं यथा जितवान् मम पित्रा च सह तस्य सिंहासन उपविष्टश्चास्मि, तथा यो जनो जयति तमहं मया सार्द्धं मत्सिंहासन उपवेशयिष्यामि।
Explore प्रकाशितं 3:21
6
प्रकाशितं 3:17
अहं धनी समृद्धश्चास्मि मम कस्याप्यभावो न भवतीति त्वं वदसि किन्तु त्वमेव दुःखार्त्तो दुर्गतो दरिद्रो ऽन्धो नग्नश्चासि तत् त्वया नावगम्यते।
Explore प्रकाशितं 3:17
7
प्रकाशितं 3:10
त्वं मम सहिष्णुतासूचकं वाक्यं रक्षितवानसि तत्कारणात् पृथिवीनिवासिनां परीक्षार्थं कृत्स्नं जगद् येनागामिपरीक्षादिनेनाक्रमिष्यते तस्माद् अहमपि त्वां रक्षिष्यामि।
Explore प्रकाशितं 3:10
8
प्रकाशितं 3:11
पश्य मया शीघ्रम् आगन्तव्यं तव यदस्ति तत् धारय को ऽपि तव किरीटं नापहरतु।
Explore प्रकाशितं 3:11
9
प्रकाशितं 3:2
प्रबुद्धो भव, अवशिष्टं यद्यत् मृतकल्पं तदपि सबलीकुरु यत ईश्वरस्य साक्षात् तव कर्म्माणि न सिद्धानीति प्रमाणं मया प्राप्तं।
Explore प्रकाशितं 3:2