1
प्रकाशितं 2:4
सत्यवेदः। Sanskrit NT in Devanagari
SAN-DN
किञ्च तव विरुद्धं मयैतत् वक्तव्यं यत् तव प्रथमं प्रेम त्वया व्यहीयत।
Compare
Explore प्रकाशितं 2:4
2
प्रकाशितं 2:5
अतः कुतः पतितो ऽसि तत् स्मृत्वा मनः परावर्त्त्य पूर्व्वीयक्रियाः कुरु न चेत् त्वया मनसि न परिवर्त्तिते ऽहं तूर्णम् आगत्य तव दीपवृक्षं स्वस्थानाद् अपसारयिष्यामि।
Explore प्रकाशितं 2:5
3
प्रकाशितं 2:10
त्वया यो यः क्लेशः सोढव्यस्तस्मात् मा भैषीः पश्य शयतानो युष्माकं परीक्षार्थं कांश्चित् कारायां निक्षेप्स्यति दश दिनानि यावत् क्लेशो युष्मासु वर्त्तिष्यते च। त्वं मृत्युपर्य्यन्तं विश्वास्यो भव तेनाहं जीवनकिरीटं तुभ्यं दास्यामि।
Explore प्रकाशितं 2:10
4
प्रकाशितं 2:7
यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु। यो जनो जयति तस्मा अहम् ईश्वरस्यारामस्थजीवनतरोः फलं भोक्तुं दास्यामि।
Explore प्रकाशितं 2:7
5
प्रकाशितं 2:2
तव क्रियाः श्रमः सहिष्णुता च मम गोचराः, त्वं दुष्टान् सोढुं न शक्नोषि ये च प्रेरिता न सन्तः स्वान् प्रेरितान् वदन्ति त्वं तान् परीक्ष्य मृषाभाषिणो विज्ञातवान्
Explore प्रकाशितं 2:2
6
प्रकाशितं 2:3
अपरं त्वं तितिक्षां विदधासि मम नामार्थं बहु सोढवानसि तथापि न पर्य्यक्लाम्यस्तदपि जानामि।
Explore प्रकाशितं 2:3
7
प्रकाशितं 2:17
यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु। यो जनो जयति तस्मा अहं गुप्तमान्नां भोक्तुं दास्यामि शुभ्रप्रस्तरमपि तस्मै दास्यामि तत्र प्रस्तरे नूतनं नाम लिखितं तच्च ग्रहीतारं विना नान्येन केनाप्यवगम्यते।
Explore प्रकाशितं 2:17