1
प्रकाशितं 20:15
सत्यवेदः। Sanskrit NT in Devanagari
SAN-DN
यस्य कस्यचित् नाम जीवनपुस्तके लिखितं नाविद्यत स एव तस्मिन् वह्निह्रदे न्यक्षिप्यत।
Compare
Explore प्रकाशितं 20:15
2
प्रकाशितं 20:12
अपरं क्षुद्रा महान्तश्च सर्व्वे मृता मया दृष्टाः, ते सिंहासनस्यान्तिके ऽतिष्ठन् ग्रन्थाश्च व्यस्तीर्य्यन्त जीवनपुस्तकाख्यम् अपरम् एकं पुस्तकमपि विस्तीर्णं। तत्र ग्रन्थेषु यद्यत् लिखितं तस्मात् मृतानाम् एकैकस्य स्वक्रियानुयायी विचारः कृतः।
Explore प्रकाशितं 20:12
3
प्रकाशितं 20:13-14
तदानीं समुद्रेण स्वान्तरस्था मृतजनाः समर्पिताः, मृत्युपरलोकाभ्यामपि स्वान्तरस्था मृतजनाः सर्मिपताः, तेषाञ्चैकैकस्य स्वक्रियानुयायी विचारः कृतः। अपरं मृत्युपरलोकौ वह्निह्रदे निक्षिप्तौ, एष एव द्वितीयो मृत्युः।
Explore प्रकाशितं 20:13-14
4
प्रकाशितं 20:11
ततः शुक्लम् एकं महासिंहासनं मया दृष्टं तदुपविष्टो ऽपि दृष्टस्तस्य वदनान्तिकाद् भूनभोमण्डले पलायेतां पुनस्ताभ्यां स्थानं न लब्धं।
Explore प्रकाशितं 20:11
5
प्रकाशितं 20:7-8
वर्षसहस्रे समाप्ते शयतानः स्वकारातो मोक्ष्यते। ततः स पृथिव्याश्चतुर्दिक्षु स्थितान् सर्व्वजातीयान् विशेषतो जूजाख्यान् माजूजाख्यांश्च सामुद्रसिकतावद् बहुसंख्यकान् जनान् भ्रमयित्वा युद्धार्थं संग्रहीतुं निर्गमिष्यति।
Explore प्रकाशितं 20:7-8