1
प्रकाशितं 19:7
सत्यवेदः। Sanskrit NT in Devanagari
SAN-DN
कीर्त्तयामः स्तवं तस्य हृष्टाश्चोल्लासिता वयं। यन्मेषशावकस्यैव विवाहसमयो ऽभवत्। वाग्दत्ता चाभवत् तस्मै या कन्या सा सुसज्जिता।
Compare
Explore प्रकाशितं 19:7
2
प्रकाशितं 19:16
अपरं तस्य परिच्छद उरसि च राज्ञां राजा प्रभूनां प्रभुश्चेति नाम निखितमस्ति।
Explore प्रकाशितं 19:16
3
प्रकाशितं 19:11
अनन्तरं मया मुक्तः स्वर्गो दृष्टः, एकः श्वेतवर्णो ऽश्वो ऽपि दृष्टस्तदारूढो जनो विश्वास्यः सत्यमयश्चेति नाम्ना ख्यातः स याथार्थ्येन विचारं युद्धञ्च करोति।
Explore प्रकाशितं 19:11
4
प्रकाशितं 19:12-13
तस्य नेत्रे ऽग्निशिखातुल्ये शिरसि च बहुकिरीटानि विद्यन्ते तत्र तस्य नाम लिखितमस्ति तमेव विना नापरः को ऽपि तन्नाम जानाति। स रुधिरमग्नेन परिच्छदेनाच्छादित ईश्वरवाद इति नाम्नाभिधीयते च।
Explore प्रकाशितं 19:12-13
5
प्रकाशितं 19:15
तस्य वक्त्राद् एकस्तीक्षणः खङ्गो निर्गच्छति तेन खङ्गेन सर्व्वजातीयास्तेनाघातितव्याः स च लौहदण्डेन तान् चारयिष्यति सर्व्वशक्तिमत ईश्वरस्य प्रचण्डकोपरसोत्पादकद्राक्षाकुण्डे यद्यत् तिष्ठति तत् सर्व्वं स एव पदाभ्यां पिनष्टि।
Explore प्रकाशितं 19:15
6
प्रकाशितं 19:20
ततः स पशु र्धृतो यश्च मिथ्याभविष्यद्वक्ता तस्यान्तिके चित्रकर्म्माणि कुर्व्वन् तैरेव पश्वङ्कधारिणस्तत्प्रतिमापूजकांश्च भ्रमितवान् सो ऽपि तेन सार्द्धं धृतः। तौ च वह्निगन्धकज्वलितह्रदे जीवन्तौ निक्षिप्तौ।
Explore प्रकाशितं 19:20