Logoja YouVersion
Ikona e kërkimit

लूकः 18

18
1अपरञ्च लोकैरक्लान्तै र्निरन्तरं प्रार्थयितव्यम् इत्याशयेन यीशुना दृष्टान्त एकः कथितः।
2कुत्रचिन्नगरे कश्चित् प्राड्विवाक आसीत् स ईश्वरान्नाबिभेत् मानुषांश्च नामन्यत।
3अथ तत्पुरवासिनी काचिद्विधवा तत्समीपमेत्य विवादिना सह मम विवादं परिष्कुर्व्विति निवेदयामास।
4ततः स प्राड्विवाकः कियद्दिनानि न तदङ्गीकृतवान् पश्चाच्चित्ते चिन्तयामास, यद्यपीश्वरान्न बिभेमि मनुष्यानपि न मन्ये
5तथाप्येषा विधवा मां क्लिश्नाति तस्मादस्या विवादं परिष्करिष्यामि नोचेत् सा सदागत्य मां व्यग्रं करिष्यति।
6पश्चात् प्रभुरवदद् असावन्यायप्राड्विवाको यदाह तत्र मनो निधध्वं।
7ईश्वरस्य ये ऽभिरुचितलोका दिवानिशं प्रार्थयन्ते स बहुदिनानि विलम्ब्यापि तेषां विवादान् किं न परिष्करिष्यति?
8युष्मानहं वदामि त्वरया परिष्करिष्यति, किन्तु यदा मनुष्यपुत्र आगमिष्यति तदा पृथिव्यां किमीदृशं विश्वासं प्राप्स्यति?
9ये स्वान् धार्म्मिकान् ज्ञात्वा परान् तुच्छीकुर्व्वन्ति एतादृग्भ्यः, कियद्भ्य इमं दृष्टान्तं कथयामास।
10एकः फिरूश्यपरः करसञ्चायी द्वाविमौ प्रार्थयितुं मन्दिरं गतौ।
11ततोऽसौ फिरूश्येकपार्श्वे तिष्ठन् हे ईश्वर अहमन्यलोकवत् लोठयितान्यायी पारदारिकश्च न भवामि अस्य करसञ्चायिनस्तुल्यश्च न, तस्मात्त्वां धन्यं वदामि।
12सप्तसु दिनेषु दिनद्वयमुपवसामि सर्व्वसम्पत्ते र्दशमांशं ददामि च, एतत्कथां कथयन् प्रार्थयामास।
13किन्तु स करसञ्चायि दूरे तिष्ठन् स्वर्गं द्रष्टुं नेच्छन् वक्षसि कराघातं कुर्व्वन् हे ईश्वर पापिष्ठं मां दयस्व, इत्थं प्रार्थयामास।
14युष्मानहं वदामि, तयोर्द्वयो र्मध्ये केवलः करसञ्चायी पुण्यवत्त्वेन गणितो निजगृहं जगाम, यतो यः कश्चित् स्वमुन्नमयति स नामयिष्यते किन्तु यः कश्चित् स्वं नमयति स उन्नमयिष्यते।
15अथ शिशूनां गात्रस्पर्शार्थं लोकास्तान् तस्य समीपमानिन्युः शिष्यास्तद् दृष्ट्वानेतृन् तर्जयामासुः,
16किन्तु यीशुस्तानाहूय जगाद, मन्निकटम् आगन्तुं शिशून् अनुजानीध्वं तांश्च मा वारयत; यत ईश्वरराज्याधिकारिण एषां सदृशाः।
17अहं युष्मान् यथार्थं वदामि, यो जनः शिशोः सदृशो भूत्वा ईश्वरराज्यं न गृह्लाति स केनापि प्रकारेण तत् प्रवेष्टुं न शक्नोति।
18अपरम् एकोधिपतिस्तं पप्रच्छ, हे परमगुरो, अनन्तायुषः प्राप्तये मया किं कर्त्तव्यं?
19यीशुरुवाच, मां कुतः परमं वदसि? ईश्वरं विना कोपि परमो न भवति।
20परदारान् मा गच्छ, नरं मा जहि, मा चोरय, मिथ्यासाक्ष्यं मा देहि, मातरं पितरञ्च संमन्यस्व, एता या आज्ञाः सन्ति तास्त्वं जानासि।
21तदा स उवाच, बाल्यकालात् सर्व्वा एता आचरामि।
22इति कथां श्रुत्वा यीशुस्तमवदत्, तथापि तवैकं कर्म्म न्यूनमास्ते, निजं सर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, तस्मात् स्वर्गे धनं प्राप्स्यसि; तत आगत्य ममानुगामी भव।
23किन्त्वेतां कथां श्रुत्वा सोधिपतिः शुशोच, यतस्तस्य बहुधनमासीत्।
24तदा यीशुस्तमतिशोकान्वितं दृष्ट्वा जगाद, धनवताम् ईश्वरराज्यप्रवेशः कीदृग् दुष्करः।
25ईश्वरराज्ये धनिनः प्रवेशात् सूचेश्छिद्रेण महाङ्गस्य गमनागमने सुकरे।
26श्रोतारः पप्रच्छुस्तर्हि केन परित्राणं प्राप्स्यते?
27स उक्तवान्, यन् मानुषेणाशक्यं तद् ईश्वरेण शक्यं।
28तदा पितर उवाच, पश्य वयं सर्व्वस्वं परित्यज्य तव पश्चाद्गामिनोऽभवाम।
29ततः स उवाच, युष्मानहं यथार्थं वदामि, ईश्वरराज्यार्थं गृहं पितरौ भ्रातृगणं जायां सन्तानांश्च त्यक्तवा
30इह काले ततोऽधिकं परकाले ऽनन्तायुश्च न प्राप्स्यति लोक ईदृशः कोपि नास्ति।
31अनन्तरं स द्वादशशिष्यानाहूय बभाषे, पश्यत वयं यिरूशालम्नगरं यामः, तस्मात् मनुष्यपुत्रे भविष्यद्वादिभिरुक्तं यदस्ति तदनुरूपं तं प्रति घटिष्यते;
32वस्तुतस्तु सोऽन्यदेशीयानां हस्तेषु समर्पयिष्यते, ते तमुपहसिष्यन्ति, अन्यायमाचरिष्यन्ति तद्वपुषि निष्ठीवं निक्षेप्स्यन्ति, कशाभिः प्रहृत्य तं हनिष्यन्ति च,
33किन्तु तृतीयदिने स श्मशानाद् उत्थास्यति।
34एतस्याः कथाया अभिप्रायं किञ्चिदपि ते बोद्धुं न शेकुः तेषां निकटेऽस्पष्टतवात् तस्यैतासां कथानाम् आशयं ते ज्ञातुं न शेकुश्च।
35अथ तस्मिन् यिरीहोः पुरस्यान्तिकं प्राप्ते कश्चिदन्धः पथः पार्श्व उपविश्य भिक्षाम् अकरोत्
36स लोकसमूहस्य गमनशब्दं श्रुत्वा तत्कारणं पृष्टवान्।
37नासरतीययीशुर्यातीति लोकैरुक्ते स उच्चैर्वक्तुमारेभे,
38हे दायूदः सन्तान यीशो मां दयस्व।
39ततोग्रगामिनस्तं मौनी तिष्ठेति तर्जयामासुः किन्तु स पुनारुवन् उवाच, हे दायूदः सन्तान मां दयस्व।
40तदा यीशुः स्थगितो भूत्वा स्वान्तिके तमानेतुम् आदिदेश।
41ततः स तस्यान्तिकम् आगमत्, तदा स तं पप्रच्छ, त्वं किमिच्छसि? त्वदर्थमहं किं करिष्यामि? स उक्तवान्, हे प्रभोऽहं द्रष्टुं लभै।
42तदा यीशुरुवाच, दृष्टिशक्तिं गृहाण तव प्रत्ययस्त्वां स्वस्थं कृतवान्।
43ततस्तत्क्षणात् तस्य चक्षुषी प्रसन्ने; तस्मात् स ईश्वरं धन्यं वदन् तत्पश्चाद् ययौ, तदालोक्य सर्व्वे लोका ईश्वरं प्रशंसितुम् आरेभिरे।

Aktualisht i përzgjedhur:

लूकः 18: SAN-DN

Thekso

Kopjo

Krahaso

Ndaje

None

A doni që theksimet tuaja të jenë të ruajtura në të gjitha pajisjet që keni? Regjistrohu ose hyr