प्रकाशितं 6:5-6
प्रकाशितं 6:5-6 SAN-DN
अपरं तृतीयमुद्रायां तन मोचितायां तृतीयस्य प्राणिन आगत्य पश्येति वाक् मया श्रुता, ततः कालवर्ण एको ऽश्वो मया दृष्टः, तदारोहिणो हस्ते तुला तिष्ठति अनन्तरं प्राणिचतुष्टयस्य मध्याद् वागियं श्रुता गोधूमानामेकः सेटको मुद्रापादैकमूल्यः, यवानाञ्च सेटकत्रयं मुद्रापादैकमूल्यं तैलद्राक्षारसाश्च त्वया मा हिंसितव्याः।





