प्रकाशितं 19
19
1ततः परं स्वर्गस्थानां महाजनताया महाशब्दो ऽयं मया श्रूतः, ब्रूत परेश्वरं धन्यम् अस्मदीयो य ईश्वरः। तस्याभवत् परित्राणां प्रभावश्च पराक्रमः।
2विचाराज्ञाश्च तस्यैव सत्या न्याय्या भवन्ति च। या स्ववेश्याक्रियाभिश्च व्यकरोत् कृत्स्नमेदिनीं। तां स दण्डितवान् वेश्यां तस्याश्च करतस्तथा। शोणितस्य स्वदासानां संशोधं स गृहीतवान्॥
3पुनरपि तैरिदमुक्तं यथा, ब्रूत परेश्वरं धन्यं यन्नित्यं नित्यमेव च। तस्या दाहस्य धूमो ऽसौ दिशमूर्द्ध्वमुदेष्यति॥
4ततः परं चतुर्व्विंशतिप्राचीनाश्चत्वारः प्राणिनश्च प्रणिपत्य सिंहासनोपविष्टम् ईश्वरं प्रणम्यावदन्, तथास्तु परमेशश्च सर्व्वैरेव प्रशस्यतां॥
5अनन्तरं सिंहासनमध्याद् एष रवो निर्गतो, यथा, हे ईश्वरस्य दासेयास्तद्भक्ताः सकला नराः। यूयं क्षुद्रा महान्तश्च प्रशंसत व ईश्वरं॥
6ततः परं महाजनतायाः शब्द इव बहुतोयानाञ्च शब्द इव गृरुतरस्तनितानाञ्च शब्द इव शब्दो ऽयं मया श्रुतः, ब्रूत परेश्वरं धन्यं राजत्वं प्राप्तवान् यतः। स परमेश्वरो ऽस्माकं यः सर्व्वशक्तिमान् प्रभुः।
7कीर्त्तयामः स्तवं तस्य हृष्टाश्चोल्लासिता वयं। यन्मेषशावकस्यैव विवाहसमयो ऽभवत्। वाग्दत्ता चाभवत् तस्मै या कन्या सा सुसज्जिता।
8परिधानाय तस्यै च दत्तः शुभ्रः सुचेलकः॥
9स सुचेलकः पवित्रलोकानां पुण्यानि। ततः स माम् उक्तवान् त्वमिदं लिख मेषशावकस्य विवाहभोज्याय ये निमन्त्रितास्ते धन्या इति। पुनरपि माम् अवदत्, इमानीश्वरस्य सत्यानि वाक्यानि।
10अनन्तरं अहं तस्य चरणयोरन्तिके निपत्य तं प्रणन्तुमुद्यतः। ततः स माम् उक्तवान् सावधानस्तिष्ठ मैवं कुरु यीशोः साक्ष्यविशिष्टैस्तव भ्रातृभिस्त्वया च सहदासो ऽहं। ईश्वरमेव प्रणम यस्माद् यीशोः साक्ष्यं भविष्यद्वाक्यस्य सारं।
11अनन्तरं मया मुक्तः स्वर्गो दृष्टः, एकः श्वेतवर्णो ऽश्वो ऽपि दृष्टस्तदारूढो जनो विश्वास्यः सत्यमयश्चेति नाम्ना ख्यातः स याथार्थ्येन विचारं युद्धञ्च करोति।
12तस्य नेत्रे ऽग्निशिखातुल्ये शिरसि च बहुकिरीटानि विद्यन्ते तत्र तस्य नाम लिखितमस्ति तमेव विना नापरः को ऽपि तन्नाम जानाति।
13स रुधिरमग्नेन परिच्छदेनाच्छादित ईश्वरवाद इति नाम्नाभिधीयते च।
14अपरं स्वर्गस्थसैन्यानि श्वेताश्वारूढानि परिहितनिर्म्मलश्वेतसूक्ष्मवस्त्राणि च भूत्वा तमनुगच्छन्ति।
15तस्य वक्त्राद् एकस्तीक्षणः खङ्गो निर्गच्छति तेन खङ्गेन सर्व्वजातीयास्तेनाघातितव्याः स च लौहदण्डेन तान् चारयिष्यति सर्व्वशक्तिमत ईश्वरस्य प्रचण्डकोपरसोत्पादकद्राक्षाकुण्डे यद्यत् तिष्ठति तत् सर्व्वं स एव पदाभ्यां पिनष्टि।
16अपरं तस्य परिच्छद उरसि च राज्ञां राजा प्रभूनां प्रभुश्चेति नाम निखितमस्ति।
17अनन्तरं सूर्य्ये तिष्ठन् एको दूतो मया दृष्टः, आकाशमध्य उड्डीयमानान् सर्व्वान् पक्षिणः प्रति स उच्चैःस्वरेणेदं घोषयति, अत्रागच्छत।
18ईश्वरस्य महाभोज्ये मिलत, राज्ञां क्रव्याणि सेनापतीनां क्रव्याणि वीराणां क्रव्याण्यश्वानां तदारूढानाञ्च क्रव्याणि दासमुक्तानां क्षुद्रमहतां सर्व्वेषामेव क्रव्याणि च युष्माभि र्भक्षितव्यानि।
19ततः परं तेनाश्वारूढजनेन तदीयसैन्यैश्च सार्द्धं युद्धं कर्त्तुं स पशुः पृथिव्या राजानस्तेषां सैन्यानि च समागच्छन्तीति मया दृष्टं।
20ततः स पशु र्धृतो यश्च मिथ्याभविष्यद्वक्ता तस्यान्तिके चित्रकर्म्माणि कुर्व्वन् तैरेव पश्वङ्कधारिणस्तत्प्रतिमापूजकांश्च भ्रमितवान् सो ऽपि तेन सार्द्धं धृतः। तौ च वह्निगन्धकज्वलितह्रदे जीवन्तौ निक्षिप्तौ।
21अवशिष्टाश्च तस्याश्वारूढस्य वक्त्रनिर्गतखङ्गेन हताः, तेषां क्रव्यैश्च पक्षिणः सर्व्वे तृप्तिं गताः।
Currently Selected:
प्रकाशितं 19: SAN-DN
Highlight
Copy
Compare
Share
Want to have your highlights saved across all your devices? Sign up or sign in
© SanskritBible.in । Licensed under Creative Commons Attribution-ShareAlike 4.0 International License.

: