२ तीमथियः 3:1-5
२ तीमथियः 3:1-5 SAN-DN
चरमदिनेषु क्लेशजनकाः समया उपस्थास्यन्तीति जानीहि। यतस्तात्कालिका लोका आत्मप्रेमिणो ऽर्थप्रेमिण आत्मश्लाघिनो ऽभिमानिनो निन्दकाः पित्रोरनाज्ञाग्राहिणः कृतघ्ना अपवित्राः प्रीतिवर्जिता असन्धेया मृषापवादिनो ऽजितेन्द्रियाः प्रचण्डा भद्रद्वेषिणो विश्वासघातका दुःसाहसिनो दर्पध्माता ईश्वराप्रेमिणः किन्तु सुखप्रेमिणो भक्तवेशाः किन्त्वस्वीकृतभक्तिगुणा भविष्यन्ति; एतादृशानां लोकानां संमर्गं परित्यज।





