१ तीमथियः 2
2
1मम प्रथम आदेशोऽयं, प्रार्थनाविनयनिवेदनधन्यवादाः कर्त्तव्याः,
2सर्व्वेषां मानवानां कृते विशेषतो वयं यत् शान्तत्वेन निर्व्विरोधत्वेन चेश्चरभक्तिं विनीतत्वञ्चाचरन्तः कालं यापयामस्तदर्थं नृपतीनाम् उच्चपदस्थानाञ्च कृते ते कर्त्तव्याः।
3यतोऽस्माकं तारकस्येश्वरस्य साक्षात् तदेवोत्तमं ग्राह्यञ्च भवति,
4स सर्व्वेषां मानवानां परित्राणं सत्यज्ञानप्राप्तिञ्चेच्छति।
5यत एकोऽद्वितीय ईश्वरो विद्यते किञ्चेश्वरे मानवेषु चैको ऽद्वितीयो मध्यस्थः
6स नरावतारः ख्रीष्टो यीशु र्विद्यते यः सर्व्वेषां मुक्ते र्मूल्यम् आत्मदानं कृतवान्। एतेन येन प्रमाणेनोपयुक्ते समये प्रकाशितव्यं,
7तद्घोषयिता दूतो विश्वासे सत्यधर्म्मे च भिन्नजातीयानाम् उपदेशकश्चाहं न्ययूज्ये, एतदहं ख्रीष्टस्य नाम्ना यथातथ्यं वदामि नानृतं कथयामि।
8अतो ममाभिमतमिदं पुरुषैः क्रोधसन्देहौ विना पवित्रकरान् उत्तोल्य सर्व्वस्मिन् स्थाने प्रार्थना क्रियतां।
9तद्वत् नार्य्योऽपि सलज्जाः संयतमनसश्च सत्यो योग्यमाच्छादनं परिदधतु किञ्च केशसंस्कारैः कणकमुक्ताभि र्महार्घ्यपरिच्छदैश्चात्मभूषणं न कुर्व्वत्यः
10स्वीकृतेश्वरभक्तीनां योषितां योग्यैः सत्यर्म्मभिः स्वभूषणं कुर्व्वतां।
11नारी सम्पूर्णविनीतत्वेन निर्विरोधं शिक्षतां।
12नार्य्याः शिक्षादानं पुरुषायाज्ञादानं वाहं नानुजानामि तया निर्व्विरोेधत्वम् आचरितव्यं।
13यतः प्रथमम् आदमस्ततः परं हवायाः सृष्टि र्बभूव।
14किञ्चादम् भ्रान्तियुक्तो नाभवत् योषिदेव भ्रान्तियुक्ता भूत्वात्याचारिणी बभूव।
15तथापि नारीगणो यदि विश्वासे प्रेम्नि पवित्रतायां संयतमनसि च तिष्ठति तर्ह्यपत्यप्रसववर्त्मना परित्राणं प्राप्स्यति।
Currently Selected:
१ तीमथियः 2: SAN-DN
Highlight
Copy
Compare
Share
Want to have your highlights saved across all your devices? Sign up or sign in
© SanskritBible.in । Licensed under Creative Commons Attribution-ShareAlike 4.0 International License.

: