YouVersion Logo
Search Icon

१ थिषलनीकिनः 3

3
1अतोऽहं यदा सन्देहं पुनः सोढुं नाशक्नुवं तदानीम् आथीनीनगर एकाकी स्थातुं निश्चित्य
2स्वभ्रातरं ख्रीष्टस्य सुसंवादे सहकारिणञ्चेश्वरस्य परिचारकं तीमथियं युष्मत्समीपम् अप्रेषयं।
3वर्त्तमानैः क्लेशैः कस्यापि चाञ्चल्यं यथा न जायते तथा ते त्वया स्थिरीक्रियन्तां स्वकीयधर्म्ममधि समाश्वास्यन्ताञ्चेति तम् आदिशं।
4वयमेतादृशे क्लेेशे नियुक्ता आस्मह इति यूयं स्वयं जानीथ, यतोऽस्माकं दुर्गति र्भविष्यतीति वयं युष्माकं समीपे स्थितिकालेऽपि युष्मान् अबोधयाम, तादृशमेव चाभवत् तदपि जानीथ।
5तस्मात् परीक्षकेण युष्मासु परीक्षितेष्वस्माकं परिश्रमो विफलो भविष्यतीति भयं सोढुं यदाहं नाशक्नुवं तदा युष्माकं विश्वासस्य तत्त्वावधारणाय तम् अप्रेषयं।
6किन्त्वधुना तीमथियो युष्मत्समीपाद् अस्मत्सन्निधिम् आगत्य युष्माकं विश्वासप्रेमणी अध्यस्मान् सुवार्त्तां ज्ञापितवान् वयञ्च यथा युष्मान् स्मरामस्तथा यूयमप्यस्मान् सर्व्वदा प्रणयेन स्मरथ द्रष्टुम् आकाङ्क्षध्वे चेति कथितवान्।
7हे भ्रातरः, वार्त्तामिमां प्राप्य युष्मानधि विशेषतो युष्माकं क्लेशदुःखान्यधि युष्माकं विश्वासाद् अस्माकं सान्त्वनाजायत;
8यतो यूयं यदि प्रभाववतिष्ठथ तर्ह्यनेन वयम् अधुना जीवामः।
9वयञ्चास्मदीयेश्वरस्य साक्षाद् युष्मत्तो जातेन येनानन्देन प्रफुल्ला भवामस्तस्य कृत्स्नस्यानन्दस्य योग्यरूपेणेश्वरं धन्यं वदितुं कथं शक्ष्यामः?
10वयं येन युष्माकं वदनानि द्रष्टुं युष्माकं विश्वासे यद् असिद्धं विद्यते तत् सिद्धीकर्त्तुञ्च शक्ष्यामस्तादृशं वरं दिवानिशं प्रार्थयामहे।
11अस्माकं तातेनेश्वरेण प्रभुना यीशुख्रीष्टेन च युष्मत्समीपगमनायास्माकं पन्था सुगमः क्रियतां।
12परस्परं सर्व्वांश्च प्रति युष्माकं प्रेम युष्मान् प्रति चास्माकं प्रेम प्रभुना वर्द्ध्यतां बहुफलं क्रियताञ्च।
13अपरमस्माकं प्रभु र्यीशुख्रीष्टः स्वकीयैः सर्व्वैः पवित्रलोकैः सार्द्धं यदागमिष्यति तदा यूयं यथास्माकं तातस्येश्वरस्य सम्मुखे पवित्रतया निर्दोषा भविष्यथ तथा युष्माकं मनांसि स्थिरीक्रियन्तां।

Highlight

Copy

Compare

Share

None

Want to have your highlights saved across all your devices? Sign up or sign in