YouVersion Logo
Search Icon

१ पितरः 3

3
1हे योषितः, यूयमपि निजस्वामिनां वश्या भवत तथा सति यदि केचिद् वाक्ये विश्वासिनो न सन्ति तर्हि
2ते विनावाक्यं योषिताम् आचारेणार्थतस्तेषां प्रत्यक्षेण युष्माकं सभयसतीत्वाचारेणाक्रष्टुं शक्ष्यन्ते।
3अपरं केशरचनया स्वर्णालङ्कारधारणोन परिच्छदपरिधानेन वा युष्माकं वाह्यभूषा न भवतु,
4किन्त्वीश्वरस्य साक्षाद् बहुमूल्यक्षमाशान्तिभावाक्षयरत्नेन युक्तो गुप्त आन्तरिकमानव एव।
5यतः पूर्व्वकाले याः पवित्रस्त्रिय ईश्वरे प्रत्याशामकुर्व्वन् ता अपि तादृशीमेव भूषां धारयन्त्यो निजस्वामिनां वश्या अभवन्।
6तथैव सारा इब्राहीमो वश्या सती तं पतिमाख्यातवती यूयञ्च यदि सदाचारिण्यो भवथ व्याकुलतया च भीता न भवथ तर्हि तस्याः कन्या आध्वे।
7हे पुरुषाः, यूयं ज्ञानतो दुर्ब्बलतरभाजनैरिव योषिद्भिः सहवासं कुरुत, एकस्य जीवनवरस्य सहभागिनीभ्यताभ्यः समादरं वितरत च न चेद् युष्माकं प्रार्थनानां बाधा जनिष्यते।
8विशेषतो यूयं सर्व्व एकमनसः परदुःखै र्दुःखिता भ्रातृप्रमिणः कृपावन्तः प्रीतिभावाश्च भवत।
9अनिष्टस्य परिशोधेनानिष्टं निन्दाया वा परिशोधेन निन्दां न कुर्व्वन्त आशिषं दत्त यतो यूयम् आशिरधिकारिणो भवितुमाहूता इति जानीथ।
10अपरञ्च, जीवने प्रीयमाणो यः सुदिनानि दिदृक्षते। पापात् जिह्वां मृषावाक्यात् स्वाधरौ स निवर्त्तयेत्।
11स त्यजेद् दुष्टतामार्गं सत्क्रियाञ्च समाचरेत्। मृगयाणश्च शान्तिं स नित्यमेवानुधावतु।
12लोचने परमेशस्योन्मीलिते धार्म्मिकान् प्रति। प्रार्थनायाः कृते तेषाः तच्छ्रोत्रे सुगमे सदा। क्रोधास्यञ्च परेशस्य कदाचारिषु वर्त्तते।
13अपरं यदि यूयम् उत्तमस्यानुगामिनो भवथ तर्हि को युष्मान् हिंसिष्यते?
14यदि च धर्म्मार्थं क्लिश्यध्वं तर्हि धन्या भविष्यथ। तेषाम् आशङ्कया यूयं न बिभीत न विङ्क्त वा।
15मनोभिः किन्तु मन्यध्वं पवित्रं प्रभुमीश्वरं। अपरञ्च युष्माकम् आन्तरिकप्रत्याशायास्तत्त्वं यः कश्चित् पृच्छति तस्मै शान्तिभीतिभ्याम् उत्तरं दातुं सदा सुसज्जा भवत।
16ये च ख्रीष्टधर्म्मे युष्माकं सदाचारं दूषयन्ति ते दुष्कर्म्मकारिणामिव युष्माकम् अपवादेन यत् लज्जिता भवेयुस्तदर्थं युष्माकम् उत्तमः संवेदो भवतु।
17ईश्वरस्याभिमताद् यदि युष्माभिः क्लेशः सोढव्यस्तर्हि सदाचारिभिः क्लेशसहनं वरं न च कदाचारिभिः।
18यस्माद् ईश्वरस्य सन्निधिम् अस्मान् आनेतुम् अधार्म्मिकाणां विनिमयेन धार्म्मिकः ख्रीष्टो ऽप्येककृत्वः पापानां दण्डं भुक्तवान्, स च शरीरसम्बन्धे मारितः किन्त्वात्मनः सम्बन्धे पुन र्जीवितो ऽभवत्।
19तत्सम्बन्धे च स यात्रां विधाय काराबद्धानाम् आत्मनां समीपे वाक्यं घोषितवान्।
20पुरा नोहस्य समये यावत् पोतो निरमीयत तावद् ईश्वरस्य दीर्घसहिष्णुता यदा व्यलम्बत तदा तेऽनाज्ञाग्राहिणोऽभवन्। तेन पोतोनाल्पेऽर्थाद् अष्टावेव प्राणिनस्तोयम् उत्तीर्णाः।
21तन्निदर्शनञ्चावगाहनं (अर्थतः शारीरिकमलिनताया यस्त्यागः स नहि किन्त्वीश्वरायोत्तमसंवेदस्य या प्रतज्ञा सैव) यीशुख्रीष्टस्य पुनरुत्थानेनेदानीम् अस्मान् उत्तारयति,
22यतः स स्वर्गं गत्वेश्वरस्य दक्षिणे विद्यते स्वर्गीयदूताः शासका बलानि च तस्य वशीभूता अभवन्।

Highlight

Copy

Compare

Share

None

Want to have your highlights saved across all your devices? Sign up or sign in