YouVersion Logo
Search Icon

यूहन्‍नः 1

1
प्रस्‍तावना
1सृष्‍ट्‌याः आदौ शब्‍दः (वचनम्‌ वा) आसीत्‌,
शब्‍दः परमेश्‍वरेण सह आसीत्‌
शब्‍दः एव परमेश्‍वरः आसीत्‌।
2सः आदौ परमेश्‍वरेण सह आसीत्‌।
3तेन सर्वम्‌ उत्‍पन्‍नम्‌ अभवत्‌।
तेन विना किमपि न अजायत।
4तस्‍मिन्‌ जीवनम्‌ अवर्तत,
तत्‌ च जीवनम्‌ मनुष्‍याणां ज्‍योतिः आसीत्‌।
5सा ज्‍योतिः अन्‍धकारेऽपि राजते स्‍म,
अन्‍धकारः ज्‍योतिम्‌ न निर्वापयामास।
6परमेश्‍वरेण प्रेषितः योहननामकः नरः प्रकटः अभवत्‌।
7सः साक्ष्‍याः रूपे आगच्‍छत्‌,
येन सः ज्‍योत्‍याः विषये साक्ष्‍यं ददातु।
यथा सर्वेषां मनसि तेन विश्‍वासः सम्‍भवेत्‌।
8सः स्‍वयं ज्‍योतिः न आसीत्‌ ;
सः ज्‍योतिविषये साक्ष्‍यं दातुम्‌ आगच्‍छत्‌।
9शब्‍दः असौ वास्‍तविकज्‍योतिः आसीत्‌,
या प्रत्‍येकमनुष्‍यस्‍य अन्‍धकारं दूरी करोति।
सा संसारे आगच्‍छन्‍ती आसीत्‌।
10शब्‍दः संसारे आसीत्‌,
संसारः तेन उत्‍पन्‍नः
परन्‍तु संसारः तस्‍य अभिज्ञानम्‌ न अकरोत्‌।
11सः स्‍वजनानाम्‌ अन्‍तिकम्‌ आगतः
तस्‍य च स्‍वजनाः तं न जगृहुः,
12ये च तस्‍य नाम्‍नि विश्‍वसन्‍ति,
तेभ्‍यः प्रभोः सन्‍तानाः भवितुम्‌ अधिकारम्‌ अददात्‌।
13सः न तु रक्‍तेन,
न शरीरस्‍य वासनया,
न तु मनुष्‍यस्‍य इच्‍छया च,
परन्‍तु परमेश्‍वरात्‌ उत्‍पन्‍नः अस्‍ति।
14शब्‍दः धृतशरीरम्‌ अस्‍माकं मध्‍ये अनिवसत्‌।
अस्‍माभिः तस्‍य ईदृशी महिमा दृष्‍टा।
यथा, पितुः एकजातस्‍य पुत्रस्‍य महिमा,
या अनुग्रहेण सत्‍येन च परिपूर्णा अस्‍ति।
15योहनः उच्‍चैः उक्‍त्‍वा
तस्‍य विषये साक्ष्‍यम्‌ अददात्‌,
“सः अयम्‌ अस्‍ति, यस्‍य विषये मया कथितम्‌-
यः मम पश्‍चात्‌ आगन्‍ता अस्‍ति,
सः मत्तः श्रेष्‍ठः वर्तते;
यतः सः मत्तः प्रागासीत्‌।”
16तस्‍य परिपूर्णतया अस्‍मभ्‍यम्‌ अनुग्रहात्‌ परम्‌
अनुग्रहः अलभत।
17व्‍यवस्‍था तु मूसाप्रदत्ता अस्‍ति,
परन्‍तु सत्‍यम्‌ अनुग्रहश्‍च मसीहेन अलभेताम्‌।
18केनापि कदापि परमेश्‍वरः न दृष्‍टः;
परन्‍तु एकजातः पुत्रः यः स्‍वयं परमेश्‍वरः वर्तते,
यः पितु ः क्रोडे विद्यमानः अस्‍ति,
तं प्रकटितवान्‌।
योहनस्‍य साक्ष्‍यम्‌
19योहनस्‍य साक्षी इयम्‌ यदा यहूदीधर्मगुरवः येरुसलेमाद्‌ पुरोहितान्‌ लेबिनश्‍च योहनं प्रति प्रष्‍टुं प्रेषितवन्‍तः “कः भवान्‌?”, 20तदा सः इत्‍थं साक्ष्‍यम्‌ अददात्‌ - “अहं मसीहः न अस्‍मि” इति सः स्‍पष्‍टम्‌ अंगीचकार। 21ते तं पृष्‍टवन्‍तः, भवान्‌ एलियाहः किंस्‍वित्‌? सः उक्‍तवान्‌, न, सः अस्‍मि अहम्‌। भवान्‌ तर्हि नबी किंस्‍वित्‌? सोऽवदत्‌ “अहं न अस्‍मि।” 22ते तमूचुः - “को भवान्‌ इति?” यैः भवन्‍तं परिज्ञातुम्‌ वयं प्रेषिताः, तेभ्‍यः किम्‌ उत्तरं दास्‍यामः? अतः भवान्‌ आत्‍मनः विषये किं ब्रवीति? 23योहनः तान्‌ अकथयत्‌, अहमस्‍मि - यथा यशायाहः नबी कथितवान्‌ - “निर्जनप्रदेशे उच्‍चैघोषयतः वाणी;” प्रभोः मार्गं ऋजुं कुरुत।
24प्रेषिताः जनाः फरीसिनः आसन्‌। 25ते तम्‌ अपृच्‍छन्‌, “भवान्‌ नो चेत्‌ मसीहः, न च एलियाहः, न अपि नबी, तर्हि जलसंस्‍कारं किम्‌ ददाति?” 26योहनः तान्‌ प्रत्‍युतरत्‌, “अहं तु जलेन जलसंस्‍कारं ददामि, युष्‍माकं मध्‍ये एकः वर्तते, यं यूयं न जानीथ। 27सः मम पश्‍चात्‌ आगन्‍ता अस्‍ति। अहम्‌ तस्‍य उपानहयोः बन्‍धनम्‌ मोक्‍तुम्‌ अपि अर्हः नास्‍मि।
28एतद्‌ वृत्तम्‌ यर्दनपारवर्तिनि बेतनियाहग्रामे घटितम्‌, यत्र योहनः जलसंस्‍कारं ददाति स्‍म।
प्रभुः येशुः “परमेश्‍वरस्‍य मेषशावकः”
29अन्‍यस्‍मिन्‌ दिने, योहनः येशुं स्‍वसमीपं समायान्‍तं दृष्‍टवान्‌ कथितवान्‌ च, “पश्‍यत-परमेश्‍वरस्‍य मेषशावकः, यः संसारस्‍य पापं हरति। 30सः अयमस्‍ति, यस्‍य विषये मया कथितम्‌, मम पश्‍चात्‌ एकः नरः आगमिष्‍यति सः मत्तोऽपि सर्वथा श्रेष्‍ठः वर्तते, यतः स मत्तः प्राक्‌ आसीत्‌। 31अहमपि तं न जानामि स्‍म, परन्‍तु जलेनजलसंस्‍कारंम्‌ दातुम्‌ आगतः अस्‍मि यत्‌, सः इस्राएले प्रकटः भवेत्‌।”
32पुनश्‍च योहनः साक्ष्‍यं दत्त्वा तान्‌ इदम्‌ अब्रवीत्‌, “अहम्‌ आत्‍मानं कपोतरूपे स्‍वर्गात्‌ अवरोहन्‌, तस्‍य ऊपरि तिष्‍ठन्‌ अपश्‍यम्‌। 33अहम्‌ अपि तं न जानामि स्‍म; परन्‍तु येन मां जलेन जलसंस्‍कारं दातुम्‌ अप्रेषयत्‌, सः माम्‌ अकथयत्‌, यस्‍मिन्‌ आत्‍मा आयाति, तिष्‍ठति च, स एव पवित्रात्‍मना जलसंस्‍कारं ददाति। 34अहं तु दृष्‍टवान्‌, साक्ष्‍यं तु दत्तवान्‌ यत्‌ सः परमेश्‍वरस्‍य पुत्रः वर्तते।
प्रभोः येशोः प्रथमाः शिष्‍याः
35परेद्‌युः योहनः द्वाभ्‍यां शिष्‍याभ्‍याम्‌ सह तत्रैव आसीत्‌। 36सः येशुं गच्‍छन्‌ अपश्‍यत्‌, अकथयत्‌ च, “पश्‍यतम्‌-परमेश्‍वरस्‍य मेषशावकः।” 37द्वौ शिष्‍यौ तस्‍य इदं वचनं श्रुत्‍वा येशुम्‌ अनुजग्‍मतुः। 38येशुः प्रत्‍यावृत्‍य तौ अनुयान्‍तौ विलोक्‍य अपृच्‍छत्‌, “किम्‌ इच्‍छथः?” तौ अकथयताम्‌, “रव्‍बिन्‌ (गुरो) ! भवान्‌ कुत्र तिष्‍ठति? 39येशुः तौ प्रत्‍युवाच, “आगत्‍य पश्‍यतम्‌ युवाम्‌।” तौ गत्‍वा अपश्‍यतम्‌, यत्‌ येशुः कुत्र वसति? तत्‌ दिनं तौ तेन सह अतिष्‍ठताम्‌। तदा सन्‍ध्‍यायाः चतुः वादनम्‌ आसीत्‌।
40यौ योहनस्‍य वचः श्रुत्‍वा येशुम्‌ अनुजग्‍मतुः, तयोः एकः सिमोनपतरसस्‍य भ्राता अन्‍दे्रयासः आसीत्‌। 41सः प्रातः सिमोनम्‌ अवदत्‌, “आवाभ्‍याम्‌ मसीहः प्राप्‍तः।” 42इति उक्‍त्‍वा तं येशोः अन्‍तिकं निन्‍ये। येशुः तं दृष्‍ट्‌वा प्राह, त्‍वं योहनस्‍य सुतः सिमोनः वर्तसे। त्‍वं केफा (यस्‍य अर्थः प्रस्‍तरः भवति) अभिधास्‍यसे।”
43अन्‍ये दिवसेः येशुः गलीलप्रदेशे गन्‍तुम्‌ निश्‍चितवान्‌। फिलिपम्‌ आसाद्‌य तं प्राह, माम्‌ अनुव्रज। 44फिलिपः बेथसैदानगरस्‍य निवासी आसीत्‌। तत्र अन्‍द्रेयासपतरसौ अपि अनिवसताम्‌। 45फिलिपः नतनएलं प्राप्‍त्‍वा, अवदत्‌-मूसाव्‍यवस्‍थायां, नबिभिः स्‍वग्रन्‍थे यस्‍य विषये लिखितम्‌ अस्‍ति, स एव अस्‍माभिः विलोकितः। सः नाजरेतनिवासी यूसुफस्‍य पुत्रः वर्तते।” 46नतनएलः अवदत्‌, “किं नाजरेतात्‌ च कित्र्चिद्‌ भद्रं वस्‍तु भवितुं शक्‍नोति?” फिलिपः उक्‍तवान्‌ “स्‍वयम्‌ एत्‍य निरीक्षस्‍व।”
47येशुः नतनएलम्‌ स्‍व अन्‍तिकम्‌ आयान्‍तं विलोक्‍य जगाद, पश्‍यत, अयं वास्‍तविकः इस्राएली वर्तते। अस्‍मिन्‌ कोऽपि कपटः न विद्‌यते।” 48नतनएलः येशुम्‌ अपृच्‍छत्‌, “भवान्‌ कथं मां जानाति।” येशुः तम्‌ प्रत्‍युतरत्‌, “फिलिपेन तव आह्‌वानात्‌ पूर्वमेव, त्‍वं मया उदुम्‍बरस्‍य तरोः अधः उपविष्‍टः विलोकितः।” 49नतनएलः येशुम्‌ अवदत्‌, “गुरो! भवान्‌ परमेश्‍वरस्‍य पुत्रः वर्तते, भवान्‌ इस्राएलस्‍य राजा वर्तते।” 50येशुः तं प्रत्‍युवाच, “अहं त्‍वम्‌ उडुम्‍बरस्‍य तरोः अधः अपश्‍यम्‌, अतः त्‍वं मयि विश्‍वासं कुरुषे। इतः अपि अधिकानि आश्‍चर्यकार्याणि द्रक्ष्‍यसि।” 51येशुः तम्‌ इदमपि अवदत्‌, “त्‍वं स्‍वर्गम्‌ अपावृतम्‌, “परमेश्‍वरस्‍य दूतान्‌ मानवपुत्रस्‍य ऊपरि आरोहताः अवरोहताः कुर्वन्‍तः द्रक्ष्‍यसि।

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in

YouVersion uses cookies to personalize your experience. By using our website, you accept our use of cookies as described in our Privacy Policy