1
प्रकाशितं 7:9
सत्यवेदः। Sanskrit NT in Devanagari
SAN-DN
ततः परं सर्व्वजातीयानां सर्व्ववंशीयानां सर्व्वदेशीयानां सर्व्वभाषावादिनाञ्च महालोकारण्यं मया दृष्टं, तान् गणयितुं केनापि न शक्यं, ते च शुभ्रपरिच्छदपरिहिताः सन्तः करैश्च तालवृन्तानि वहन्तः सिंहासनस्य मेषशावकस्य चान्तिके तिष्ठन्ति
Compare
Explore प्रकाशितं 7:9
2
प्रकाशितं 7:10
उच्चैःस्वरैरिदं कथयन्ति च, सिंहासनोपविष्टस्य परमेशस्य नः स्तवः।स्तवश्च मेषवत्सस्य सम्भूयात् त्राणकारणात्।
Explore प्रकाशितं 7:10
3
प्रकाशितं 7:17
यतः सिंहासनाधिष्ठानकारी मेषशावकस्तान् चारयिष्यति, अमृततोयानां प्रस्रवणानां सन्निधिं तान् गमयिष्यति च, ईश्वरोऽपि तेषां नयनभ्यः सर्व्वमश्रु प्रमार्क्ष्यति।
Explore प्रकाशितं 7:17
4
प्रकाशितं 7:15-16
तत्कारणात् त ईश्वरस्य सिंहासनस्यान्तिके तिष्ठन्तो दिवारात्रं तस्य मन्दिरे तं सेवन्ते सिंहासनोपविष्टो जनश्च तान् अधिस्थास्यति। तेषां क्षुधा पिपासा वा पुन र्न भविष्यति रौद्रं कोप्युत्तापो वा तेषु न निपतिष्यति
Explore प्रकाशितं 7:15-16
5
प्रकाशितं 7:3-4
ईश्वरस्य दासा यावद् अस्माभि र्भालेषु मुद्रयाङ्किता न भविष्यन्ति तावत् पृथिवी समुद्रो तरवश्च युष्माभि र्न हिंस्यन्तां। ततः परं मुद्राङ्कितलोकानां संख्या मयाश्रावि। इस्रायेलः सर्व्ववंशाीयाश्चतुश्चत्वारिंशत्सहस्राधिकलक्षलोका मुद्रयाङ्किता अभवन्
Explore प्रकाशितं 7:3-4