1
प्रकाशितं 11:15
सत्यवेदः। Sanskrit NT in Devanagari
SAN-DN
अनन्तरं सप्तदूतेन तूर्य्यां वादितायां स्वर्ग उच्चैः स्वरैर्वागियं कीर्त्तिता, राजत्वं जगतो यद्यद् राज्यं तदधुनाभवत्। अस्मत्प्रभोस्तदीयाभिषिक्तस्य तारकस्य च। तेन चानन्तकालीयं राजत्वं प्रकरिष्यते॥
Compare
Explore प्रकाशितं 11:15
2
प्रकाशितं 11:18
विजातीयेषु कुप्यत्सु प्रादुर्भूता तव क्रुधा। मृतानामपि कालो ऽसौ विचारो भविता यदा। भृत्याश्च तव यावन्तो भविष्यद्वादिसाधवः। ये च क्षुद्रा महान्तो वा नामतस्ते हि बिभ्यति। यदा सर्व्वेभ्य एतेभ्यो वेतनं वितरिष्यते। गन्तव्यश्च यदा नाशो वसुधाया विनाशकैः॥
Explore प्रकाशितं 11:18
3
प्रकाशितं 11:3
पश्चात् मम द्वाभ्यां साक्षिभ्यां मया सामर्थ्यं दायिष्यते तावुष्ट्रलोमजवस्त्रपरिहितौ षष्ठ्यधिकद्विशताधिकसहस्रदिनानि यावद् भविष्यद्वाक्यानि वदिष्यतः।
Explore प्रकाशितं 11:3
4
प्रकाशितं 11:11
तस्मात् सार्द्धदिनत्रयात् परम् ईश्वरात् जीवनदायक आत्मनि तौ प्रविष्टे तौ चरणैरुदतिष्ठतां, तेन यावन्तस्तावपश्यन् ते ऽतीव त्रासयुक्ता अभवन्।
Explore प्रकाशितं 11:11
5
प्रकाशितं 11:6
तयो र्भविष्यद्वाक्यकथनदिनेषु यथा वृष्टि र्न जायते तथा गगनं रोद्धुं तयोः सामर्थ्यम् अस्ति, अपरं तोयानि शोणितरूपाणि कर्त्तुं निजाभिलाषात् मुहुर्मुहुः सर्व्वविधदण्डैः पृथिवीम् आहन्तुञ्च तयोः सामर्थ्यमस्ति।
Explore प्रकाशितं 11:6
6
प्रकाशितं 11:4-5
तावेव जगदीश्वरस्यान्तिके तिष्ठन्तौ जितवृक्षौ दीपवृक्षौ च। यदि केचित् तौ हिंसितुं चेष्टन्ते तर्हि तयो र्वदनाभ्याम् अग्नि र्निर्गत्य तयोः शत्रून् भस्मीकरिष्यति। यः कश्चित् तौ हिंसितुं चेष्टते तेनैवमेव विनष्टव्यं।
Explore प्रकाशितं 11:4-5