1
फिलिपिनः 4:6
सत्यवेदः। Sanskrit NT in Devanagari
SAN-DN
यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।
Compare
Explore फिलिपिनः 4:6
2
फिलिपिनः 4:7
तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।
Explore फिलिपिनः 4:7
3
फिलिपिनः 4:8
हे भ्रातरः, शेषे वदामि यद्यत् सत्यम् आदरणीयं न्याय्यं साधु प्रियं सुख्यातम् अन्येण येन केनचित् प्रकारेण वा गुणयुक्तं प्रशंसनीयं वा भवति तत्रैव मनांसि निधध्वं।
Explore फिलिपिनः 4:8
4
फिलिपिनः 4:13
मम शक्तिदायकेन ख्रीष्टेन सर्व्वमेव मया शक्यं भवति।
Explore फिलिपिनः 4:13
5
फिलिपिनः 4:4
यूयं प्रभौ सर्व्वदानन्दत। पुन र्वदामि यूयम् आनन्दत।
Explore फिलिपिनः 4:4
6
फिलिपिनः 4:19
ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।
Explore फिलिपिनः 4:19
7
फिलिपिनः 4:9
यूयं मां दृष्ट्वा श्रुत्वा च यद्यत् शिक्षितवन्तो गृहीतवन्तश्च तदेवाचरत तस्मात् शान्तिदायक ईश्वरो युष्माभिः सार्द्धं स्थास्यति।
Explore फिलिपिनः 4:9
8
फिलिपिनः 4:5
युष्माकं विनीतत्वं सर्व्वमानवै र्ज्ञायतां, प्रभुः सन्निधौ विद्यते।
Explore फिलिपिनः 4:5
9
फिलिपिनः 4:12
दरिद्रतां भोक्तुं शक्नोमि धनाढ्यताम् अपि भोक्तुं शक्नोमि सर्व्वथा सर्व्वविषयेषु विनीतोऽहं प्रचुरतां क्षुधाञ्च धनं दैन्यञ्चावगतोऽस्मि।
Explore फिलिपिनः 4:12
10
फिलिपिनः 4:11
अहं यद् दैन्यकारणाद् इदं वदामि तन्नहि यतो मम या काचिद् अवस्था भवेत् तस्यां सन्तोष्टुम् अशिक्षयं।
Explore फिलिपिनः 4:11