1
याकूबः 3:17
सत्यवेदः। Sanskrit NT in Devanagari
SAN-DN
किन्तूर्द्ध्वाद् आगतं यत् ज्ञानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपटञ्च भवति।
Compare
Explore याकूबः 3:17
2
याकूबः 3:13
युष्माकं मध्ये ज्ञानी सुबोधश्च क आस्ते? तस्य कर्म्माणि ज्ञानमूलकमृदुतायुक्तानीति सदाचारात् स प्रमाणयतु।
Explore याकूबः 3:13
3
याकूबः 3:18
शान्त्याचारिभिः शान्त्या धर्म्मफलं रोप्यते।
Explore याकूबः 3:18
4
याकूबः 3:16
यतो हेतोरीर्ष्या विवादेच्छा च यत्र वेद्येते तत्रैव कलहः सर्व्वं दुष्कृतञ्च विद्यते।
Explore याकूबः 3:16
5
याकूबः 3:9-10
तया वयं पितरम् ईश्वरं धन्यं वदामः, तया चेश्वरस्य सादृश्ये सृष्टान् मानवान् शपामः। एकस्माद् वदनाद् धन्यवादशापौ निर्गच्छतः। हे मम भ्रातरः, एतादृशं न कर्त्तव्यं।
Explore याकूबः 3:9-10
6
याकूबः 3:6
रसनापि भवेद् वह्निरधर्म्मरूपपिष्टपे। अस्मदङ्गेषु रसना तादृशं सन्तिष्ठति सा कृत्स्नं देहं कलङ्कयति सृष्टिरथस्य चक्रं प्रज्वलयति नरकानलेन ज्वलति च।
Explore याकूबः 3:6
7
याकूबः 3:8
किन्तु मानवानां केनापि जिह्वा दमयितुं न शक्यते सा न निवार्य्यम् अनिष्टं हलाहलविषेण पूर्णा च।
Explore याकूबः 3:8
8
याकूबः 3:1
हे मम भ्रातरः, शिक्षकैरस्माभि र्गुरुतरदण्डो लप्स्यत इति ज्ञात्वा यूयम् अनेके शिक्षका मा भवत।
Explore याकूबः 3:1