1
गालातिनः 5:22-23
सत्यवेदः। Sanskrit NT in Devanagari
SAN-DN
किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।
Compare
Explore गालातिनः 5:22-23
2
गालातिनः 5:16
अहं ब्रवीमि यूयम् आत्मिकाचारं कुरुत शारीरिकाभिलाषं मा पूरयत।
Explore गालातिनः 5:16
3
गालातिनः 5:25
यदि वयम् आत्मना जीवामस्तर्ह्यात्मिकाचारोऽस्माभिः कर्त्तव्यः
Explore गालातिनः 5:25
4
गालातिनः 5:24
ये तु ख्रीष्टस्य लोकास्ते रिपुभिरभिलाषैश्च सहितं शारीरिकभावं क्रुशे निहतवन्तः।
Explore गालातिनः 5:24
5
गालातिनः 5:19-21
अपरं परदारगमनं वेश्यागमनम् अशुचिता कामुकता प्रतिमापूजनम् इन्द्रजालं शत्रुत्वं विवादोऽन्तर्ज्वलनं क्रोधः कलहोऽनैक्यं पार्थक्यम् ईर्ष्या वधो मत्तत्वं लम्पटत्वमित्यादीनि स्पष्टत्वेन शारीरिकभावस्य कर्म्माणि सन्ति। पूर्व्वं यद्वत् मया कथितं तद्वत् पुनरपि कथ्यते ये जना एतादृशानि कर्म्माण्याचरन्ति तैरीश्वरस्य राज्येऽधिकारः कदाच न लप्स्यते।
Explore गालातिनः 5:19-21
6
गालातिनः 5:13
हे भ्रातरः, यूयं स्वातन्त्र्यार्थम् आहूता आध्वे किन्तु तत्स्वातन्त्र्यद्वारेण शारीरिकभावो युष्मान् न प्रविशतु। यूयं प्रेम्ना परस्परं परिचर्य्यां कुरुध्वं।
Explore गालातिनः 5:13
7
गालातिनः 5:17
यतः शारीरिकाभिलाष आत्मनो विपरीतः, आत्मिकाभिलाषश्च शरीरस्य विपरीतः, अनयोरुभयोः परस्परं विरोधो विद्यते तेन युष्माभि र्यद् अभिलष्यते तन्न कर्त्तव्यं।
Explore गालातिनः 5:17
8
गालातिनः 5:14
यस्मात् त्वं समीपवासिनि स्ववत् प्रेम कुर्य्या इत्येकाज्ञा कृत्स्नाया व्यवस्थायाः सारसंग्रहः।
Explore गालातिनः 5:14
9
गालातिनः 5:26
दर्पः परस्परं निर्भर्त्सनं द्वेषश्चास्माभि र्न कर्त्तव्यानि।
Explore गालातिनः 5:26
10
गालातिनः 5:1
ख्रीष्टोऽस्मभ्यं यत् स्वातन्त्र्यं दत्तवान् यूयं तत्र स्थिरास्तिष्ठत दासत्वयुगेन पुन र्न निबध्यध्वं।
Explore गालातिनः 5:1