1
इफिषिणः 5:1-2
सत्यवेदः। Sanskrit NT in Devanagari
SAN-DN
अतो यूयं प्रियबालका इवेश्वरस्यानुकारिणो भवत, ख्रीष्ट इव प्रेमाचारं कुरुत च, यतः सोऽस्मासु प्रेम कृतवान् अस्माकं विनिमयेन चात्मनिवेदनं कृत्वा ग्राह्यसुगन्धार्थकम् उपहारं बलिञ्चेश्वराच दत्तवान्।
Compare
Explore इफिषिणः 5:1-2
2
इफिषिणः 5:15-16
अतः सावधाना भवत, अज्ञाना इव माचरत किन्तु ज्ञानिन इव सतर्कम् आचरत। समयं बहुमूल्यं गणयध्वं यतः काला अभद्राः।
Explore इफिषिणः 5:15-16
3
इफिषिणः 5:18-20
सर्व्वनाशजनकेन सुरापानेन मत्ता मा भवत किन्त्वात्मना पूर्य्यध्वं। अपरं गीतै र्गानैः पारमार्थिककीर्त्तनैश्च परस्परम् आलपन्तो मनसा सार्द्धं प्रभुम् उद्दिश्य गायत वादयत च। सर्व्वदा सर्व्वविषयेऽस्मत्प्रभो यीशोः ख्रीष्टस्य नाम्ना तातम् ईश्वरं धन्यं वदत।
Explore इफिषिणः 5:18-20
4
इफिषिणः 5:17
तस्माद् यूयम् अज्ञाना न भवत किन्तु प्रभोरभिमतं किं तदवगता भवत।
Explore इफिषिणः 5:17
5
इफिषिणः 5:25
अपरञ्च हे पुरुषाः, यूयं ख्रीष्ट इव स्वस्वयोषित्सु प्रीयध्वं।
Explore इफिषिणः 5:25
6
इफिषिणः 5:8
पूर्व्वं यूयम् अन्धकारस्वरूपा आध्वं किन्त्विदानीं प्रभुना दीप्तिस्वरूपा भवथ तस्माद् दीप्तेः सन्ताना इव समाचरत।
Explore इफिषिणः 5:8
7
इफिषिणः 5:21
यूयम् ईश्वराद् भीताः सन्त अन्येऽपरेषां वशीभूता भवत।
Explore इफिषिणः 5:21
8
इफिषिणः 5:22
हे योषितः, यूयं यथा प्रभोस्तथा स्वस्वस्वामिनो वशङ्गता भवत।
Explore इफिषिणः 5:22
9
इफिषिणः 5:33
अतएव युष्माकम् एकैको जन आत्मवत् स्वयोषिति प्रीयतां भार्य्यापि स्वामिनं समादर्त्तुं यततां।
Explore इफिषिणः 5:33
10
इफिषिणः 5:31
एतदर्थं मानवः स्वमातापितरोै परित्यज्य स्वभार्य्यायाम् आसंक्ष्यति तौ द्वौ जनावेकाङ्गौ भविष्यतः।
Explore इफिषिणः 5:31
11
इफिषिणः 5:11
यूयं तिमिरस्य विफलकर्म्मणाम् अंशिनो न भूत्वा तेषां दोषित्वं प्रकाशयत।
Explore इफिषिणः 5:11