1
२ करिन्थिनः 9:8
सत्यवेदः। Sanskrit NT in Devanagari
SAN-DN
अपरम् ईश्वरो युष्मान् प्रति सर्व्वविधं बहुप्रदं प्रसादं प्रकाशयितुम् अर्हति तेन यूयं सर्व्वविषये यथेष्टं प्राप्य सर्व्वेण सत्कर्म्मणा बहुफलवन्तो भविष्यथ।
Compare
Explore २ करिन्थिनः 9:8
2
२ करिन्थिनः 9:7
एकैकेन स्वमनसि यथा निश्चीयते तथैव दीयतां केनापि कातरेण भीतेन वा न दीयतां यत ईश्वरो हृष्टमानसे दातरि प्रीयते।
Explore २ करिन्थिनः 9:7
3
२ करिन्थिनः 9:6
अपरमपि व्याहरामि केनचित् क्षुद्रभावेन बीजेषूप्तेषु स्वल्पानि शस्यानि कर्त्तिष्यन्ते, किञ्च केनचिद् बहुदभवेन बीजेषूप्तेषु बहूनि शस्यानि कर्त्तिष्यन्ते।
Explore २ करिन्थिनः 9:6
4
२ करिन्थिनः 9:10-11
बीजं भेजनीयम् अन्नञ्च वप्त्रे येन विश्राण्यते स युष्मभ्यम् अपि बीजं विश्राण्य बहुलीकरिष्यति युष्माकं धर्म्मफलानि वर्द्धयिष्यति च। तेन सर्व्वविषये सधनीभूतै र्युष्माभिः सर्व्वविषये दानशीलतायां प्रकाशितायाम् अस्माभिरीश्वरस्य धन्यवादः साधयिष्यते।
Explore २ करिन्थिनः 9:10-11
5
२ करिन्थिनः 9:15
अपरम् ईश्वरस्यानिर्व्वचनीयदानात् स धन्यो भूयात्।
Explore २ करिन्थिनः 9:15