1
२ करिन्थिनः 6:14
सत्यवेदः। Sanskrit NT in Devanagari
SAN-DN
अपरम् अप्रत्ययिभिः सार्द्धं यूयम् एकयुगे बद्धा मा भूत, यस्माद् धर्म्माधर्म्मयोः कः सम्बन्धोऽस्ति? तिमिरेण सर्द्धं प्रभाया वा का तुलनास्ति?
Compare
Explore २ करिन्थिनः 6:14
2
२ करिन्थिनः 6:16
ईश्वरस्य मन्दिरेण सह वा देवप्रतिमानां का तुलना? अमरस्येश्वरस्य मन्दिरं यूयमेव। ईश्वरेण तदुक्तं यथा, तेषां मध्येऽहं स्वावासं निधास्यामि तेषां मध्ये च यातायातं कुर्व्वन् तेषाम् ईश्वरो भविष्यामि ते च मल्लोका भविष्यन्ति।
Explore २ करिन्थिनः 6:16
3
२ करिन्थिनः 6:17-18
अतो हेतोः परमेश्वरः कथयति यूयं तेषां मध्याद् बहिर्भूय पृथग् भवत, किमप्यमेध्यं न स्पृशत; तेनाहं युष्मान् ग्रहीष्यामि, युष्माकं पिता भविष्यामि च, यूयञ्च मम कन्यापुत्रा भविष्यथेति सर्व्वशक्तिमता परमेश्वरेणोक्तं।
Explore २ करिन्थिनः 6:17-18
4
२ करिन्थिनः 6:15
बिलीयालदेवेन साकं ख्रीष्टस्य वा का सन्धिः? अविश्वासिना सार्द्धं वा विश्वासिलोकस्यांशः कः?
Explore २ करिन्थिनः 6:15