1
१ तीमथियः 1:15
सत्यवेदः। Sanskrit NT in Devanagari
SAN-DN
पापिनः परित्रातुं ख्रीष्टो यीशु र्जगति समवतीर्णोऽभवत्, एषा कथा विश्वासनीया सर्व्वै ग्रहणीया च।
Compare
Explore १ तीमथियः 1:15
2
१ तीमथियः 1:16
तेषां पापिनां मध्येऽहं प्रथम आसं किन्तु ये मानवा अनन्तजीवनप्राप्त्यर्थं तस्मिन् विश्वसिष्यन्ति तेषां दृष्टान्ते मयि प्रथमे यीशुना ख्रीष्टेन स्वकीया कृत्स्ना चिरसहिष्णुता यत् प्रकाश्यते तदर्थमेवाहम् अनुकम्पां प्राप्तवान्।
Explore १ तीमथियः 1:16
3
१ तीमथियः 1:5
उपदेशस्य त्वभिप्रेतं फलं निर्म्मलान्तःकरणेन सत्संवेदेन निष्कपटविश्वासेन च युक्तं प्रेम।
Explore १ तीमथियः 1:5
4
१ तीमथियः 1:17
अनादिरक्षयोऽदृश्यो राजा योऽद्वितीयः सर्व्वज्ञ ईश्वरस्तस्य गौरवं महिमा चानन्तकालं यावद् भूयात्। आमेन्।
Explore १ तीमथियः 1:17
5
१ तीमथियः 1:9-10
अपरं सा व्यवस्था धार्म्मिकस्य विरुद्धा न भवति किन्त्वधार्म्मिको ऽवाध्यो दुष्टः पापिष्ठो ऽपवित्रो ऽशुचिः पितृहन्ता मातृहन्ता नरहन्ता वेश्यागामी पुंमैथुनी मनुष्यविक्रेता मिथ्यावादी मिथ्याशपथकारी च सर्व्वेषामेतेषां विरुद्धा
Explore १ तीमथियः 1:9-10