1
१ थिषलनीकिनः 5:16-18
सत्यवेदः। Sanskrit NT in Devanagari
SAN-DN
सर्व्वदानन्दत। निरन्तरं प्रार्थनां कुरुध्वं। सर्व्वविषये कृतज्ञतां स्वीकुरुध्वं यत एतदेव ख्रीष्टयीशुना युष्मान् प्रति प्रकाशितम् ईश्वराभिमतं।
Compare
Explore १ थिषलनीकिनः 5:16-18
2
१ थिषलनीकिनः 5:23-24
शान्तिदायक ईश्वरः स्वयं युष्मान् सम्पूर्णत्वेन पवित्रान् करोतु, अपरम् अस्मत्प्रभो र्यीशुख्रीष्टस्यागमनं यावद् युष्माकम् आत्मानः प्राणाः शरीराणि च निखिलानि निर्द्दोषत्वेन रक्ष्यन्तां। यो युष्मान् आह्वयति स विश्वसनीयोऽतः स तत् साधयिष्यति।
Explore १ थिषलनीकिनः 5:23-24
3
१ थिषलनीकिनः 5:15
अपरं कमपि प्रत्यनिष्टस्य फलम् अनिष्टं केनापि यन्न क्रियेत तदर्थं सावधाना भवत, किन्तु परस्परं सर्व्वान् मानवांश्च प्रति नित्यं हिताचारिणो भवत।
Explore १ थिषलनीकिनः 5:15
4
१ थिषलनीकिनः 5:11
अतएव यूयं यद्वत् कुरुथ तद्वत् परस्परं सान्त्वयत सुस्थिरीकुरुध्वञ्च।
Explore १ थिषलनीकिनः 5:11
5
१ थिषलनीकिनः 5:14
हे भ्रातरः, युष्मान् विनयामहे यूयम् अविहिताचारिणो लोकान् भर्त्सयध्वं, क्षुद्रमनसः सान्त्वयत, दुर्ब्बलान् उपकुरुत, सर्व्वान् प्रति सहिष्णवो भवत च।
Explore १ थिषलनीकिनः 5:14
6
१ थिषलनीकिनः 5:9
यत ईश्वरोऽस्मान् क्रोधे न नियुज्यास्माकं प्रभुना यीशुख्रीष्टेन परित्राणस्याधिकारे नियुुक्तवान्
Explore १ थिषलनीकिनः 5:9
7
१ थिषलनीकिनः 5:5
सर्व्वे यूयं दीप्तेः सन्ताना दिवायाश्च सन्ताना भवथ वयं निशावंशास्तिमिरवंशा वा न भवामः।
Explore १ थिषलनीकिनः 5:5