मत्ति 6:16-18

मत्ति 6:16-18 SANSKBSI

“यदा उपवासं कुरुथ, तदा कपटिनः इव, यूयं कदाचन विषण्‍णवदनाः मा भवत। मलिनीकुर्वते ते तु मुखं स्‍वं येन मानवाः जानीरन्‌ यत्‌ एतैः जनैः उपवासः विधीयते। अहं युष्‍मान्‌ ब्रवीमि तैः तु स्‍वं पारितोषिकम्‌ लब्‍धम्‌। यूयं यदा उपवसथ तदा यूयं स्‍वमस्‍तके, तैलं निषिच्‍य वारिणा वदनं प्रक्षालयत। येन लोकः न जानीयात्‌ यद्‌ युष्‍माभिः उपवासः क्रियते, केवलं युष्‍माकं पिता जानीते, यः सम्‍पूर्णम्‌ वीक्षते, युष्‍मभ्‍यम्‌ पारितोषिकं दास्‍यति।

मत्ति 6:16-18 -тай холбоотой үнэгүй уншлагын тѳлѳвлѳгѳѳнүүд болон чимээгүй цагийн сэдэв